Professional Documents
Culture Documents
Dhanvantar Istotram
Dhanvantar Istotram
॥ धन्वन्तरिस्तोत्रम्॥
Document Information
This text is prepared by volunteers and is to be used for personal study and
research. The file is not to be copied or reposted for promotion of any
website or individuals or for commercial purpose without permission.
August 2, 2016
sanskritdocuments.org
.. Dhanvantaristotra ..
॥ धन्वन्तरिस्तोत्रम्॥
ॐ नमो भगवते धन्वन्तरये अमृतकलशहस्ताय,
सर्वामयविनाशनाय, त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ॥
चन्द्रौघकान्तिममृतोरुकरैर्जगन्ति
सञ्जीवयन्तममितात्मसुखं परेशम्।
ज्ञानं सुधाकलशमेव च सन्दधानं
शीतांशुमण्डलगतं स्मरतात्मसंस्थम्॥
मूर्ध्नि स्थितादमुत एव सुधां स्रवन्तीं
भ्रूमध्यगाच्च तत एव च तानुसंस्थात्।
हार्दाच्च नाभिसदनादधरस्थिताच्च
ध्यात्वाभिपूरिततनुः दुरितं निहन्यात्॥
अज्ञान-दुःख-भय-रोग-महाविषाणि
योगोऽयमाशु विनिहन्ति सुखं च दद्यात्।
उन्माद-विभ्रमहरः हरतश्च सान्द्र-
मानन्दमेव पदमापयति स्म नित्यम्॥
ध्यात्वैव हस्ततलगं स्वमृतं स्रवन्तं
एवं स यस्य शिरसि स्वकरं निधाय ।
आवर्तयेन्मनुमिमं स च वीतरोगः
पापादपैति मनसा यदि भक्तिनम्रः ॥
धं धन्वन्तरये नमः ॥
धं धन्वन्तरये नमः ॥
धं धन्वन्तरये नमः ॥
दीर्घ-पीवर-दोर्दण्डः, कम्बुग्रीवोऽरुणेक्षणः ।
श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः ॥
पीतवासा महोरस्कः, सुमृष्टमणिकुण्डलः ।
नीलकुञ्चितकेशान्तः, सुभगः सिंहविक्रमः ॥
var स्निग्धकुञ्चित Bhagavatam 8.8.34
अमृतस्य पूर्णकलशं बिभ्रद्वलयभूषितः।
स वै भगवतः साक्षाद् विष्णोरंशांशसम्भवः ।
धन्वन्तरिरिति ख्यातः आयुर्वेददृगित्यभाक् ।
एवं धन्वन्तरिं ध्यायेत्साधकोऽभीष्टसिद्धये ॥
dhanvantarIstotram.pdf 1
॥ धन्वन्तरिस्तोत्रम्॥
Audio http://www.divinebrahmanda.com/2012/09/sri-dhanwantri-
stotram-by-sritml
Encoded and proofread by Usha Rani Sanka usharani.sanka at
gmail.com
Proofread by Avinash Sathaye sohum at ms.uky.edu and
2 sanskritdocuments.org
.. Dhanvantaristotra ..
.. Dhanvantaristotra ..
was typeset on August 2, 2016
dhanvantarIstotram.pdf 3