Professional Documents
Culture Documents
Dvayopani Shat
Dvayopani Shat
॥ द्वयोपनिषत्॥
.. dvayopaniShat ..
sanskritdocuments.org
October 20, 2017
.. dvayopaniShat ..
॥ द्वयोपनिषत्॥
Location : doc_upanishhat
This text is prepared by volunteers and is to be used for personal study and
research. The file is not to be copied or reposted without permission, for
promotion of any website or individuals or for commercial purpose.
sanskritdocuments.org
ॐ अथातः श्रीमद्द्वयोत्पत्तिः ।
वाक्यो द्वितीयः । षट्पदान्यष्टादश ।
पञ्चविंशत्यक्षराणि । पञ्चदशाक्षरं पूर्वम्।
दशाक्षरं परम्। पूर्वो नारायणः
प्रोक्तोऽनादिसिद्धो मन्त्ररत्नः सदाचार्यमूलः ।
आचार्यो वेदसम्पन्नो विष्णुभक्तो विमत्सरः ।
मन्त्रज्ञो मन्त्रभक्तश्च सदामन्त्राश्रयः शुचिः ॥
गुरुभक्तिसमायुक्तः पुराणज्ञो विशेषवित्।
एवं लक्षणसम्पन्नो गुरुरित्यभिधीयते ॥
आचिनोति हि शास्त्रार्थानाचारस्थापनादपि ।
स्वयमाचरते यस्तु तस्मादाचार्य उच्यते ॥
गुशब्दस्त्वन्धकारः स्यात्रुशब्दस्तन्निरोधकः ।
अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते ॥
गुरुरेव परं ब्रह्म गुरुरेव परा गतिः ।
गुरुरेव परं विद्या गुरुरेव परं धनम्॥
गुरुरेव परः कामः गुरुरेव परायणः ।
यस्मात्तदुपदेष्टासौ तस्माद्गुरुतरो गुरुः ॥
यस्सकृदुच्चारणः संसारविमोचनो भवति ।
सर्वपुरुषार्थसिद्धिर्भवति ।
न च पुनरावर्तते न च पुनरावर्तत इति ।
य एवं वेदेत्युपनिषत्॥
इति द्वयोपनिषत्समाप्ता ।
Proofread by Sunder Hattangadi sunderh at hotmail.com,
Radim Navyan radimnavyan at gmail.com
.. dvayopaniShat ..
dvayopaniShat.pdf 1
॥ द्वयोपनिषत्॥
2 sanskritdocuments.org