Professional Documents
Culture Documents
Gurusirnatya
Gurusirnatya
एषः कार्यक्रमः पञ्चसप्ततिसप्ताहान् य़ावत् आचरिष्यते। किं संस्कृ तज्ञाः वयम् एतम् अवसरत्वेन परिवर्तयितुं शक्नुयाम ?
संस्कृ तप्रचारोत्सुकानाम् अस्माकं प्रत्येकं प्रसङ्गे नूतनतया चिन्तनस्य अभ्यासः। अतः अत्र अहं महत् किमपि लक्ष्यम् उपस्थापयामि। एतस्य लेखस्य पठनसमये एतत्
सर्वं कर्तुं कथं शक्यम् इति कदाचित् भासेत। तथापि कश्चन अत्र एकम् अपि अंशम् करिष्यति चेत् अपि महत् इति मन्ये। किञ्च अद्य कदाचित् कोपि न कु र्यात् चेदपि
अद्य उप्यमानं विचारसरणिबीजं दशवर्षाणाम् अनन्तरम् अङ्कु रितं भविष्यति चेदपि तत् महत् एव इति भावयामि।
स्वतन्त्रभारतस्य पञ्चसप्ततितमे वर्षे अस्माभिः संस्कृ तस्य पञ्चसप्ततिः कार्याणि करणीयानि। तानि संस्थया कर्तुं योग्यानि, जनेन कर्तुं शक्यानि च इति द्विधा चिन्तयितुं
शक्यन्ते। संस्थया नाम संस्कृ तविश्वविद्यालयेन, संस्कृ तमहाविद्यालयेन, संस्कृ तप्रचारसङ्घटनेन, संस्कृ तप्रचारपरिषदा, संस्कृ तविभागेन, संस्कृ तानुरागिसंस्थया वा।
जनेन इत्यस्य अभिप्रायः भवति के नचित् एके न जनेन स्वतन्त्रतया अथवा स्वस्य मित्रैः सह मिलित्वा इति। कतिचन कार्याणि संस्थया अपि, जनेन अपि इति सर्वैः कर्तुं
शक्यानि स्युः। अतः यथायोग्यं भावः गृह्यताम्।
यानि कार्याणि चिन्त्येरन् तेषां करणस्य उद्देश्यानि अस्माकं निर्दिष्टानि स्पष्टानि च स्युः। तेषां करणेन संस्कृ तशिक्षायाः संस्कृ तप्रचारस्य वा वर्तमानानां प्रधानभूतानाम्
आवश्यकतानां पूर्त्यर्थं यत्किञ्चित् साहाय्यं भवेत्। एतानि कार्याणि साधयितुं सर्वकारस्य धनसाहाय्यं भवेत् इति मा चिन्त्यताम्। तेन कदाचित् निराशता भवेत्। अतः
अस्मद्बलेन, समाजबलेन, दानिनां बलेन वा एव एतानि साधनीयानि इति अस्माकं पूर्वमेव स्पष्टता अस्ति चेत् उत्तमम्।
उपिरितनानि कार्याणि कर्तुं कति संस्थाः जनाः वा शक्नुयुः इति अथवा तेषु कार्येषु कति कार्याणि कर्तुं शक्नुयुः इति वा प्रश्नः न कर्तव्यः। प्रश्नः क्रियते चेत् कति
संस्थाः जनाः वा एतादृशं चिन्तनं कर्तुं शक्नुयुः इति कर्तव्यः। प्रश्नः नूतनरूपेण चिन्तनस्य। प्रश्नः बृहद्रूपेण चिन्तनस्य। प्रश्नः महत्तरलक्ष्यस्वीकरणस्य। प्रश्नः
असामान्यायाः सिषाधयिषायाः। प्रश्नः अप्रतिहतकार्योत्साहस्य। प्रश्नः प्रत्येकम् अवसरस्य सदुपयोगस्य।
सामान्यतया एतस्य लेखस्य वाचकाः महान्तः जनाः न। अधिकांशाः पाठकाः महान्तः विद्वांसः अपि न। सर्वः अपि पाठकः कश्चन सामान्यः संस्कृ तप्रेमी, सामान्यः
संस्कृ तच्छात्रः, सामान्यः संस्कृ तशिक्षकः वा। परन्तु सर्वः अपि संस्कृ तप्रचाराग्निगर्भः। सर्वः अपि संस्कृ ताय अनल्पकार्यचिकीर्षुः। तस्मात् एव पञ्चसप्ततियुक्तस्य लेखस्य
एतस्य लेखनाय मम धैर्यम्।
उपरि उक्तानि एव कार्याणि करणीयानि इति अपि मम आग्रहः नास्ति। एतादृशी दृष्टिः भवेत् इति तावदेव तात्पर्यम्। सर्वस्य अपि संस्कृ तप्राध्यापकस्य शिक्षकस्य
छात्रस्य अनुरागिणः वा सर्वशक्तेः पूर्णोपयोगाय चिन्तनं करणीयम्। सर्वस्य अपि विकासाय अवसरः कल्पनीयः। सर्वस्य अपि सामर्थ्यस्य अभिव्यक्त्यै अवसरः
कल्पनीयः। उपरि सूचितायाः कार्यसरण्याः अनुसरणेन सर्वस्य अपि संस्कृ तज्ञत्वस्य कार्यकर्तृत्वस्य च इति उभयोः विकासः भवेत्।
संस्कृ तक्षेत्रात् बाह्यजगति असाधारणवेगेन अनूह्यमानानि परिवर्तनानि जायमानानि सन्ति। तस्मात् अस्माभिः संस्कृ तज्ञैः अस्माकं कार्यवेगः वर्धनीयः। चिन्तनपरिधिः
विस्तारणीयः। प्रभाववलयः विशालीकर्तव्यः। कार्यक्षेत्राणि विस्तारणीयानि। संयोजनशक्तयः संवर्धनीयाः च।
एतस्मिन् लेखे बहवः अंशाः उक्ताः। तेषु “एकः अपि अंशः सम्यक् विचारितः सुष्ठु अनुष्ठितः अल्पे काले कामधुक् भवेत्” इति आशां करोमि।
*पद्मश्री चम्मू कृ ष्ण शास्त्री*