Professional Documents
Culture Documents
निरुक्त
निरुक्त
निरुक्त
ण्
घ
ण
र
ार्थे
ठ
प
न
ह
ः
म
ग
नि
हृ
आ
व
)
(
निरुक्तग्रन्थस्य अनुबन्धाः –
विषयः – वैदिकशब्दाः (समाम्नायः)
नाम आख्यातम्
पदानि
उपसर्गः निपातः
आख्यातम् --- आख्यातस्य चत्वारोऽर्थाः भवन्ति – भावः, कालः, कारकम्, संख्याश्च । एतेषु भावस्य प्राधान्यं
भवति । अतः भावप्रधानम् आख्यातम् । भावो नाम भावना, क्रिया, धात्वर्थः, तिङन्ताः शब्दाः । अतः आख्यातं नाम
क्रियाप्रधानं पदमित्युच्यते । यथा – गच्छति, पठति इत्यादि ।
नाम – सत्त्वम्, द्रव्यम्, संख्या, लिङ्गम् इति नाम्नः चत्वारोऽर्थाः । एतेषु सत्त्वं प्रधानं भवति । अतः सत्त्वप्रधानानि
नामानि । सत्त्वं नाम द्रव्यम् । सीदति गच्छति (अन्वेति) लिङ्ग-संख्यादिकमस्मिन्निति सत्त्वम् ।
यत्र (यस्मिन् वाक्ये) नामाख्याते उभे स्तः तत्र कस्य प्राधानम् ?
उत्तरम् – भावस्य प्राधान्यम् ।
अभिनिर्वर्त्यमानः भावः (क्रिया) कथम् आख्यातपदेन उच्यते ? इति उच्यते –
व्रजति, पचति इत्यादि क्रियासु आरम्भात् आन्तं यावत् मध्ये पूर्वापरीभूताः समागताः सर्वा अपि क्रियाः
आख्यातपदेन उच्यन्ते ।
कदाचित् आरम्भात् आन्तं यावत् अभिनिर्वर्तमानः भावः मूर्तरूपो भवति रूपान्तरं प्राप्नोति । यथा व्रजतिक्रिया
व्रज्या इति पदेन उच्यते । पचति क्रिया पक्तिः इत्युच्यते । एतानि पदानि सत्त्वभूतानिं नामानि भवन्ति ।
नाम – अदः (अयम्, इयम्, इदम्) इति रूपेण सत्त्वानाम् उपदेशः क्रियते इति नाम्नः सामान्यलक्षणम् । विशिष्टानि
नामानि यथा – गौः, अश्वः, पुरुषः, हस्ती इत्यादि ।
भावः – भवतीति इति पदेन भावस्य उपदेशः क्रियते । यथा – पाको भवति, काऽपि क्रिया भवति इति आख्यातस्य
सामान्यं लक्षणम् । विशिष्टानि आख्यातपदानि यथा – आस्ते, शेते, व्रजति, तिष्ठति इत्यादि ।