Sad Ashivakavacham

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 10

Sadashiva Kavacham

सदाशिवकवचम्

Document Information

Text title : Sadashiva Kavacham

File name : sadAshivakavacham.itx

Category : shiva, kavacha

Location : doc_shiva

Transliterated by : staff of Muktabodha.org Mark S.G. Dyczkowski

Proofread by : Aruna Narayanan narayanan.aruna at gmail.com

Description/comments : rudrayAmale uttaratantre 2 bhairava bhairavI sa.nvAde

Source : Rudrayamalam part 2 edited by Ram Prasad Tripathi and Sudhakar Malaviya

Acknowledge-Permission: Marjorie Woollacott, Ph.D., Digital Library Coordinator

muktabodha.org

Latest update : February 16, 2020

Send corrections to : sanskrit@cheerful.com

This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

Please note that proofreading is done using Devanagari version and other language/scripts
are generated using sanscript.

February 16, 2020

sanskritdocuments.org
Sadashiva Kavacham

सदाशिवकवचम्

अथ चतुःसप्ततितमः पटलः
श्रीआनन्दभैरव उवाच
शैलजे देवदेवेशि सर्वाम्नायप्रपूजिते ।
सर्वं मे कथितं देवि कवचं न प्रकाशितम्॥ ७४-१॥
प्रासादाख्यस्य मन्त्रस्य कवचं मे प्रकाशय ।
सदाशिवमहादेवभावितं सिद्धिदायकम्॥ ७४-२॥
अप्रकाश्यं महामन्त्रं भैरवीभैरवोदयम्।
सर्वरक्षाकरं देवि यदि स्नेहोऽस्ति मां प्रति ॥ ७४-३॥
श्रीआनन्दभैरवी उवाच
श्रूयतां भगवन्नाथ महाकाल कुलार्णव ।
प्रासादमन्त्रकवचं सदाशिवकुलोदयम्॥ ७४-४॥
प्रासादमन्त्रदेवस्य वामदेव ऋषिः स्मृतः ।
पङ्क्तिश्छन्दश्च देवेशः सदाशिवोऽत्र देवता ॥ ७४-५॥
साधकाभीष्टसिद्धौ च विनियोगः प्रकीर्तितः ।
शिरो मे सर्वदा पातु प्रासादाख्यः सदाशिवः ॥ ७४-६॥
षडक्षरस्वरूपो मे वदनं तु महेश्वरः ।
अष्टाक्षरशक्तिरुद्धश्चक्षुषी मे सदाऽवतु ॥ ७४-७॥
पञ्चाक्षरात्मा भगवान्भुजौ मे परिरक्षतु ।
मृत्युञ्जयस्त्रिबीजात्मा आयू रक्षतु मे सदा ॥ ७४-८॥
वटमूलसमासीनो दक्षिणामूर्तिरव्ययः ।
सदा मां सर्वतः पातु षट्त्रिंशद्वर्णरूपधृक् ॥ ७४-९॥
द्वाविंशार्णात्मको रुद्रः कुक्षिं मे परिरक्षतु ।

1
सदाशिवकवचम्

त्रिवर्णाढ्यो नीलकण्ठः कण्ठं रक्षतु सर्वदा ॥ ७४-१०॥


चिन्तामणिर्बीजरूपोऽर्धनारीश्वरो हरः ।
सदा रक्षतु मे गुह्यं सर्वसम्पत्प्रदायकः ॥ ७४-११॥
एकाक्षरस्वरूपात्मा कूटव्यापी महेश्वरः ।
मार्तण्डो भैरवो नित्यं पादौ मे परिरक्षतु ॥ ७४-१२॥
तुम्बुराख्यो महाबीजस्वरूपस्त्रिपुरान्तकः ।
सदा मारणभूमौ च रक्षतु त्रिदशाधिपः ॥ ७४-१३॥
ऊर्ध्वमूर्ध्वानमीशानो मम रक्षतु सर्वदा ।
दक्षिणास्यं तत्पुरुषोऽवतु मे गिरिनायकः ॥ ७४-१४॥
अघोराख्यो महादेवः पूर्वास्यं परिरक्षतु ।
वामदेवः पश्चिमास्यं सदा मे परिरक्षतु ॥ ७४-१५॥
उत्तरास्यं सदा पातु सद्योजातस्वरूपधृक् ।
मृत्युजेता सदा पातु जलेऽरण्ये महाभये ॥ ७४-१६॥
पर्वते विषमस्थाने विषहर्ता सदाऽवतु ।
कालरुद्रः सदा पातु सर्वाङ्गं कालदेवता ॥ ७४-१७॥
कालाग्निरुद्रः सम्पातु महाव्याधिभयादिषु ।
अकालतारकः पातु खड्गधारी सदाशिवः ॥ ७४-१८॥
कवची वामदेवश्च सदा पातु महाभये ।
कालभक्षः पातु रुद्रो रुरुकः क्षेत्रपालकः ॥ ७४-१९॥
मातृकामण्डलं पातु सम्पूर्णचन्द्रशेखरः ।
चिरायुः शाकिनीभर्ता चायुषं पातु मे सदा ॥ ७४-२०॥
सिंहस्कन्धः सदा पातु रुद्राणीवल्लभोऽवतु ।
भालं पातु वज्रदम्भालेखकः क्रान्तिरूपकः ॥ ७४-२१॥
निरूपकः सदा पातु खेचरीखेचरप्रियः ।
रत्नमालाधरः पातु रक्तमुखीश्वरोऽवतु ॥ ७४-२२॥
वदनं चक्षुषी कर्णौ पातु पञ्चाननो मम ।
वेदध्वनिः सदा पातु नासारन्ध्रद्वयं मम ॥ ७४-२३॥

2 sanskritdocuments.org
सदाशिवकवचम्

कपालधारकः पातु गण्डयुग्मं युगान्तकृत्।


रक्तजिह्वापतिः पातु ममोष्ठाधरवासिनम्॥ ७४-२४॥
दन्तावलियुगं पातु भृगुरामेश्वरः शिवः ।
तालुमूलं सदा पातु विश्वभोजी रसामृतम्॥ ७४-२५॥
जिह्वाग्रं वाक्पतीशश्च भवानीशः शिवो मम ।
मुखवृत्तं सदा पातु महासेनः कवीश्वरः ॥ ७४-२६॥
क्रोधनाथः सदा पातु दक्षहस्तादिमूलकम्।
दक्षकूर्परमापातु तदग्रं कुक्कुरेश्वरः ॥ ७४-२७॥
चिरजीवी सदा पातु चाङ्गुलीमूलदेशकम्।
अङ्गुल्यग्रं सदा ब्रह्मा ब्रह्मलिङ्गधरः प्रभुः ॥ ७४-२८॥
विद्यापतिः पार्वतीशो वामहस्तादिमूलकम्।
पातु वामकूर्परं मे वामकेश्वर ईश्वरः ॥ ७४-२९॥
कुण्डवासी सदा पातु कूर्पराग्रं कुलाचलः ।
वेदमातृपतिः पातु कामधेनुपतिः प्रभुः ॥ ७४-३०॥
ममाङ्गुलीमूलदेशं पातु पञ्चमुखो मम ।
वामाङ्गुल्यग्रभागं मे पातु पर्वतपूजितः ॥ ७४-३१॥
तनुमूलाग्रभागं मे कूर्मचक्रधरः प्रभुः ।
शाकिनीवल्लभः पातु दक्षाङ्घ्रिमध्यदेशकम्॥ ७४-३२॥
गुल्फाग्रं गर्गरीनाथः पादाग्रं मूलदेवता ।
अभयावल्लभः पातु दक्षाङ्गुल्यग्रभागकम्॥ ७४-३३॥
पातु स्मरहरो योगी वामोरुमूलदेशकम्।
वामपादमध्यदेशं मध्यदेशेश्वरोऽवतु ॥ ७४-३४॥
पातु मे भगवाञ्छम्भुर्मम गुल्फाग्रदेशकम्।
मूलदेशं वामपादं पातु मेऽङ्गुष्ठमूलकम्॥ ७४-३५॥
कारणात्मा नीलकण्ठः प्रभाधारी यमान्तकः ।
अङ्गुष्ठाग्रं सदा पातु सुषुम्नानाडिकेश्वरः ॥ ७४-३६॥
महारुद्रेश्वरः पातु मम नाभिमनोभवम्।
उदरं गगनाधारः कामहर्ता हृदम्बुजम्॥ ७४-३७॥

sadAshivakavacham.pdf 3
सदाशिवकवचम्

सर्वानन्दात्मकः पातु मम स्कन्धयुगं शिवः ।


हृदयाद् दक्षहस्ताग्रपर्यन्तं पातु शोकहा ॥ ७४-३८॥
हृदयाद् वामहस्ताग्रपर्यन्तं परमेश्वरः ।
हृदयान्मम दक्षाङ्घ्रिनखान्तं मे शिवोऽवतु ॥ ७४-३९॥
सदानन्दा सदा पातु हृदाद्यङ्घ्रिं तु उन्मदः ।
वासुकीवल्लभः पातु हृदादिगुददेशकम्॥ ७४-४०॥
अनन्तनाथ आपातु हृदादिमूर्धदेशकम्।
व्यापकः सर्वदा पातु सदाशिव उमापतिः ॥ ७४-४१॥
तारात्मकः कायसिद्धः शक्तीशः शुक्रदेवता ।
पञ्चचूडः सदा पातु पञ्चतत्त्वाङ्गरूपकम्॥ ७४-४२॥
शीर्षादिपादपर्यन्तं कामधेनुः सदाऽवतु ।
जलेऽरण्ये घोरवने सङ्कटे च महापथे ॥ ७४-४३॥
प्रान्तरे पातु गुप्ताक्षः कामराजः परापरः ।
अर्धनारीश्वरः पातु मातृकापरमेश्वरः ॥ ७४-४४॥
मातृकामन्त्रपुटितः स्वस्वस्थानं सदावतु ।
धर्मात्मा धर्मसन्धिं मे पिङ्गलां पातु चण्डिकाम्॥ ७४-४५॥
विह्वलः सर्वदा पातु भोलानाथः सदाऽवतु ।
सर्वदेशे सर्वपीठे कामरूपे विशेषतः ॥ ७४-४६॥
सर्वदा योगिनीनाथः परमात्मा सदाऽवतु ।
कामरूपाख्यपीठादि पञ्चाशत्पीठदेवताः ॥ ७४-४७॥
पञ्चाशत्पीठमाया तु कामरूपं सदाशिवः ।
भवो रुद्रो महेशश्च शङ्करो मन्मथान्तकः ॥ ७४-४८॥
गुह्यकेशः पापहर्ता कपाली शूलधारकः ।
पञ्चवक्त्रो दशभुजो भुजङ्गभूषणो हरः ॥ ७४-४९॥
महाकालो महारुद्रो महावीरो हृदि स्थितः ।
महादेवो महागुह्यो महामाया महागुणः ॥ ७४-५०॥
पशुपतिर्विरूपाक्षो हरीशो धवलेश्वरः ।

4 sanskritdocuments.org
सदाशिवकवचम्

वटुकेशः क्रमाचार्यः पञ्चशूली हृदुद्भवः ॥ ७४-५१॥


उन्मनीशः साहसिकः पराख्यः पर्वतेश्वरः ।
सर्वात्मा च महात्मा च शिवात्मा च श्मशानगः ॥ ७४-५२॥
क्रोधवीरः कालकारी सूक्ष्मधर्मा धुरन्धरः ।
श्यामकः क्रूरहर्ता च गणेशः कालमाधवः ॥ ७४-५३॥
ज्ञानात्मा कपिलात्मा च सिद्धात्मा योगिनीपतिः ।
कोटिसूर्यप्रतीकाश एकपञ्चाशदीश्वराः ॥ ७४-५४॥
सदा पान्तु मातृकस्थाः स्थितिसर्गलयात्मकाः ।
आदिपीठं कामरूपं काञ्चीपीठं तदन्तिके ॥ ७४-५५॥
अयोध्यापीठनगरं तदूर्ध्वे जालकन्धरम्।
जालन्धरं तदूर्ध्वे तु सिद्धपीठं तदन्तिके ॥ ७४-५६॥
कालीपीठं तदूर्ध्वे तु चण्डिकापीठमग्रके ।
अष्टपुरीमहापीठं कण्ठदेशं सदाशिवः ॥ ७४-५७॥
सदा पातु महावीरः कालधर्मी परात्परः ।
मधुपुरीमहापीठं चाष्टपुरान्तरस्थितम्॥ ७४-५८॥
मायावतीमहापीठं तदूर्ध्वे परिकीर्तितम्।
वाराणसीमहापीठं धर्मपीठं तदन्तिके ॥ ७४-५९॥
ज्वालामुखीमहापीठं तदन्तःस्थं प्रकीर्तितम्।
तदूर्ध्वे च महापीठं ज्वलन्तीपीठमेव च ॥ ७४-६०॥
तदूर्ध्वे पूणगिर्याख्यं कुरुक्षेत्रं तदन्तिके ।
उड्डियानं तदूर्ध्वे तु कमलापीठमेव च ॥ ७४-६१॥
हरिद्वारं महापीठं बदरीपीठमेव च ।
व्यासपीठं नारदाख्यं तदूर्ध्वे वाडवानलम्॥ ७४-६२॥
हिङ्गुलादं तदूर्ध्वे तु लङ्कापीठं तदूर्ध्वके ।
तदूर्ध्वे शारदापीठं रतिपीठं तदूर्ध्वके ॥ ७४-६३॥
लिङ्गपीठं कलापीठं द्वारकापीठमेव च ।
कपालपीठं हर्याख्ये वरदापीठमुत्तरे ॥ ७४-६४॥

sadAshivakavacham.pdf 5
सदाशिवकवचम्

कालीपीठं तदूर्ध्वे तु तारापीठं तदूर्ध्वके ।


उग्रतारामहापीठं महोग्रापीठमेव च ॥ ७४-६५॥
नीलसरस्वतीपीठं जरापीठं तदूर्ध्वके ।
तदूर्ध्वे गगनापीठं खेचरीपीठमेव च ॥ ७४-६६॥
तदूर्ध्वे तारिणीपीठं सहस्रदलमध्यके ।
कर्त्रीपीठं तदूर्ध्वे च देवीपीठं तदूर्ध्वके ॥ ७४-६७॥
राजराजेश्वरीपीठं षोडशीपीठमेव च ।
सहस्रदलमध्ये तु सहस्रपीठमेव च ॥ ७४-६८॥
मध्ये एकजटापीठं कर्त्रीतीरकलोपरि ।
षोडशीमुखविद्याभिर्वेष्टिता तारिणीकला ॥ ७४-६९॥
काली नीला महाविद्या त्वरिता छिन्नमस्तका ।
वाग्वादिनी चान्नपूर्णा देवी प्रत्यङ्गिरा पुनः ॥ ७४-७०॥
कामाख्या वासली बाला मातङ्गी शैलवासिनी ।
षोडशी भुवनेशानी भैरवी बगलामुखी ॥ ७४-७१॥
धूमावती वेदमाता हरसिद्धा च दक्षिणा ।
एता विद्या महाविद्याः शिवसेवनशोभिताः ॥ ७४-७२॥
द्वाविंशतिमहाविद्या द्वारं द्वाविंशतिस्थलम्।
महापीठे सहस्रारे सर्वदा पान्तु मां कलाः ॥ ७४-७३॥
सदाशिवः शक्तियुक्तः पातु चण्डेश्वरो हरः ।
पञ्चामराधरः पातु देवीनाथः सदाऽवतु ॥ ७४-७४॥
पार्वतीप्राणनाथो मे सर्वाङ्गं पातु सर्वदा ।
अघोरनाथ ईशानो वरदो मदनान्तकः ॥ ७४-७५॥
यज्ञहर्ता दक्षखण्डो वीरभद्रो दिगम्बरः ।
अष्टादशभुजो रौद्रो नीलपङ्कजलोचनः ॥ ७४-७६॥
त्रिलोचनः कालकामो महारुद्रो गणेश्वरः ।
काकिनीवल्लभः शूली योगकर्ता महेश्वरः ॥ ७४-७७॥
वागीश्वरः स्मरहरो महामन्त्रो हलायुधः ।
श्रीनाथः पूजितो बालो बालेन्द्रो बलवाहनः ॥ ७४-७८॥

6 sanskritdocuments.org
सदाशिवकवचम्

बलरामः कृष्णरामो गोविन्दो माधवीश्वरः ।


जितामित्रेश्वरश्चूडामणीशो मानदः सुखी ॥ ७४-७९॥
मुखं वृन्दावनं पातु षड्दलाम्भोरुहस्थितम्।
वैष्णवीवल्लभः पातु ब्रह्माणं कुलकुण्डली ॥ ७४-८०॥
विष्णुनाथः सदा पातु ब्रह्माग्निं गरुडध्वजः ।
ज्वालामालाधरः पातु कालानलधरोऽवतु ॥ ७४-८१॥
काकिनीवल्लभः पातु ईश्वरो भैरवेश्वरः ।
महारुद्रो नीलकण्ठो मणिपूरं सुलाकिनीम्॥ ७४-८२॥
सदा पातु मणिगृहं रुद्राणीप्रियवल्लभः ।
महारुद्रो नीलकण्ठो महाविष्णुं सदावतु ॥ ७४-८३॥
राकिणीं विष्णुलक्ष्मीं च पातु मे वैष्णवीं कलाम्।
सदाशिवो नीलकण्ठो मम पातु हृदि स्थलम्॥ ७४-८४॥
ईश्वरं परमात्मानं मम रक्षतु शाकिनीम्।
सदाशिवं सदा पातु द्विदलस्थोऽपरो हरः ॥ ७४-८५॥
हाकिनीशक्तितः पातु सहस्रारं शिवोऽवतु ।
तारानाथविधिः पातु सहस्रारनिवासिनीम्॥ ७४-८६॥
महाकाशं सदा पातु तदधो वायुमण्डलम्।
वह्निमण्डलमापातु तदधः शाकिनीश्वरः ॥ ७४-८७॥
तदात्मकः सदा पातु कीलालं कौलदेवता ।
पृथिवीं पार्थिवः पातु सर्वदैकं सदाशिवः ॥ ७४-८८॥
इत्थं रक्षाकरं नाथ कवचं देवदुर्लभम्।
प्रातःकाले पठेद्यस्तु सोऽभीष्टं फलमाप्नुयात्॥ ७४-८९॥
पूजाकाले पठेद्यस्तु कवचं साधकोत्तमः ।
कीर्तिश्रीकान्तिमेधायुर्बृंहितो भवति ध्रुवम्॥ ७४-९०॥
अप्रकाश्यं महावीरकवचं सर्वसिद्धिदम्।
ज्ञानमात्रेण भूर्लोके जेता कालस्य योगिराट्॥ ७४-९१॥
अस्य धारणमात्रेण कालसूत्रान्तको भवेत्।

sadAshivakavacham.pdf 7
सदाशिवकवचम्

अस्य धारणपाठेन सर्वज्ञो भवति ध्रुवम्॥ ७४-९२॥


सर्वे व्यासवशिष्ठादिमहासिद्धाश्च योगिनः ।
पठित्वा धारयित्वा ते प्रधानास्तत्त्वचिन्तकाः ॥ ७४-९३॥
कण्ठे यो धारयेदेतत्कवचं त्वत्स्वरूपकम्।
मद्वक्त्राम्भोरुहोद्भूतं विद्यावाक्सिद्धिदायकम्॥ ७४-९४॥
युद्धे विजयमाप्नोति द्यूते वादे च साधकः ।
कवचं धारयेद्यस्तु साधको दक्षिणे भुजे ॥ ७४-९५॥
देवा मनुष्या गन्धर्वास्तस्य वश्या न संशयः ।
कवचं शिरसा यस्तु धारयेद् यतमानसः ॥ ७४-९६॥
करस्थास्तस्य देवेशि अणिमाद्यष्टसिद्धयः ।
भूर्जपत्रे त्विमां विद्यां शुक्लपट्टेन वेष्टिताम्॥ ७४-९७॥
रजतोदरसंविष्टां कृत्वा च धारयेत्सुधीः ।
संप्राप्य महतीं लक्ष्मीमन्ते तव शरीरधृक् ॥ ७४-९८॥
यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ।
शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत्॥ ७४-९९॥
योगिने ज्ञानयुक्ताय देयं धर्मात्मने सदा ।
अन्यथा सिद्धिहानिः स्यात्सत्यं सत्यं न संशयः ॥ ७४-१००॥
तव स्नेहान्महादेव कथितं कवचं शुभम्।
न देयं कवचं सिद्धं यदीच्छेदात्मनो हितम्॥ ७४-१०१॥
यदि भाग्यफलेनापि कवचं यदि लभ्यते ।
धूर्तो वा कपटी वापि खलो वा दुर्ग्रहस्थितः ॥ ७४-१०२॥
निजकर्मफलत्यागमवश्यं खलु कारयेत्।
तदा सिद्धिमवाप्नोति धर्मधाराधरो भवेत्॥ ७४-१०३॥
सिद्धिपूजाफलं तस्य दिवसे दिवसे सुधीः ।
धूर्ततां खलतां मिथ्यां कापट्यं स विहाय च ॥ ७४-१०४॥
राजराजेश्वरो भूत्वा जीवन्मुक्तो न संशयः ।
योऽर्चयेद् गन्धपुष्पाद्यैः कवचं मन्मुखोदितम्॥ ७४-१०५॥

8 sanskritdocuments.org
सदाशिवकवचम्

तेनार्चिता महादेव सर्वदेवा न संशयः ।


राजसिकं मानसिकं तामसिकं परन्तपः ॥ ७४-१०६॥
हृद्ये मानसिकं ध्यायन्पूजा राजसिकं स्मृतम्।
तामसिकं लोकमध्ये कवचार्चा त्रिधा मता ॥ ७४-१०७॥
सिद्धकवचमाख्यातं केवलं ज्ञानसिद्धये ।
मोक्षाय जगतां शम्भोः प्रियाय परमेश्वर ॥ ७४-१०८॥
तन्त्रेऽस्मिन्सारसङ्केतं पूजाऽप्यारोपणादिकम्।
अन्तःकरणमध्ये तु सर्वकार्यमुदीरयेत्॥ ७४-१०९॥
राज्ये च प्रपठेत्स्तोत्रं कवचं ज्ञानसिद्धये ।
इति ते कथितं नाथ परमात्मनि मङ्गलम्॥ ७४-११०॥
यस्याराधनमात्रेण शिवत्वमुत किं प्रभो ॥ ७४-१११॥
इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे
षट्चक्रप्रकाशे भैरवीभैरवसंवादे सदाशिवकवचपाठो नाम
चतुःसप्ततितमः पटलः ॥ ७४॥

The numbers correspond to paTala and verse numbers from


Rudrayamala uttaratantra.

Proofread by Aruna Narayanan

Sadashiva Kavacham
pdf was typeset on February 16, 2020

Please send corrections to sanskrit@cheerful.com

sadAshivakavacham.pdf 9

You might also like