Skanda Stav Am Va Made Va

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 5

Shri Skandastava

श्रीस्कन्दस्तवम्

Document Information

Text title : skandastavam by vAmadeva

File name : skandastavamvAmadeva.itx

Category : subrahmanya

Location : doc_subrahmanya

Proofread by : NA

Description/comments : shivapurANam 6.11 verses 22-35

Source : shivapurANam, saMhitA 6 (kailAsasaMhitA), adhyAyaH 11

Latest update : August 28, 2021

Send corrections to : Sanskrit@cheerful.com

This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

Please note that proofreading is done using Devanagari version and other language/scripts
are generated using sanscript.

August 28, 2021

sanskritdocuments.org
Shri Skandastava

श्रीस्कन्दस्तवम्

(शिवमहापुराणे)
वामदेव उवाच ।
ॐ नमः प्रणवार्थाय प्रणवार्थविधायिने ।
प्रणवाक्षरबीजाय प्रणवाय नमोनमः ॥ २२॥ १
वेदान्तार्थस्वरूपाय वेदान्तार्थविधायिने ।
वेदान्तार्थविदे नित्यं विदिताय नमोनमः ॥ २३॥ २
नमो गुहाय भूतानां गुहासु निहिताय च ।
गुह्याय गुह्यरूपाय गुह्यागमविदे नमः ॥ २४॥ ३
अणोरणीयसे तुभ्यं महतोऽपि महीयसे ।
नमः परावरज्ञाय परमात्मस्वरूपिणे ॥ २५॥ ४
स्कन्दाय स्कन्दरूपाय मिहिरारुणेतेजसे ।
नमो मन्दारमालोद्यन्मुकुटादिभृते सदा ॥ २६॥ ५
शिवशिष्याय पुत्राय शिवस्य शिवदायिने ।
शिवप्रियाय शिवयोरानन्दनिधये नम ॥ २७॥ ६
गाङ्गेयाय नमस्तुभ्यं कार्तिकेयाय धीमते ।
उमापुत्राय महते शरकाननशायिने ॥ २८॥ ७
षडक्षरशरीराय षड्विधार्थविधायिने ।
षडध्वातीतरूपाय षण्मुखाय नमोनमः ॥ २९॥ ८
द्वादशायतनेत्राय द्वादशोद्यतबाहवे ।
द्वादशायुधधाराय द्वादशात्मन्नमोऽस्तु ते ॥ ३०॥ ९
चतुर्भुजाय शान्ताय शक्तिकुक्कुटधारिणे ।
वरदाय विहस्ताय नमोऽसुरविदारिणे ॥ ३१॥ १०

1
श्रीस्कन्दस्तवम्

गजावल्लीकुचालिप्तकुङ्कुमाङ्कितवक्षसे ।
नमो गजाननानन्दमहिमानन्दितात्मने ॥ ३२॥ ११
ब्रह्मादिदेवमुनिकिन्नरगीयमानगाथाविशेषशुचिचिन्तितकीर्तिधाम्ने ।
वृन्दारकामलकिरीटविभूषणस्रक्पूज्याभिरामपदपङ्कज ते नमोऽस्तु ॥ ३३॥ १२
इति स्कन्दस्तवन्दिव्यं वामदेवेन भाषितम्।
यः पठेच्छृणुयाद्वापि स याति परमां गतिम्॥ ३४॥ १३
महाप्रज्ञाकरं ह्येतच्छिवभक्तिविवर्धनम्।
आयुरारोग्यधनकृत्सर्वकामप्रदं सदा ॥ ३५॥ १४
इति स्तुत्वा वामदेवो देवं सेनापतिं प्रभुम्।
प्रदक्षिणात्रयं कृत्वा प्रणम्य भुवि दण्डवत्॥ ३६॥
साष्टाङ्गं च पुनः कृत्वा प्रदक्षिणनमस्कृतम्।
अभवत्पार्श्वतस्तस्य विनयावनतो द्विजाः ॥ ३७॥
वामदेवकृतं स्तोत्रम्परमार्थविजृम्भितम्।
श्रुत्वाभवत्प्रसन्नो हि महेश्वरसुतः प्रभुः ॥ ३८॥
तमुवाच महासेनः प्रीतोऽस्मि तव पूजया ।
भक्त्या स्तुत्या च भद्रन्ते किमद्यकरवाण्यहम्॥ ३९॥
मुने त्वं योगिनांमुख्यः परिपूर्णश्च निस्पृहः ।
भवादृशां हि लोकेस्मिप्रार्थनीयं न विद्यते ॥ ४०॥
तथापि धर्मरक्षायै लोकानुग्रहकाङ्क्षया ।
त्वादृशा साधवस्सन्तो विचरन्ति महीतले ॥ ४१॥
श्रोतव्यमस्ति चेद्ब्रह्मन्वक्तुमर्हसि साम्प्रतम्।
तदिदानीमहं वक्ष्ये लोकानुग्रहहे तवे ॥ ४२॥
इति स्कन्दवचः श्रुत्वा वामदेवो महामुनिः ।
प्रश्रयावनतः प्राह मेघगम्भीरया गिरा ॥ ४३॥
वामदेव उवाच ।
भगवन्परमेशस्त्वं परापरविभूतिदः ।
सर्वज्ञसर्वकर्ता च सर्वशक्तिधरः प्रभुः ॥ ४४॥
जीवा वयं तु ते वक्तुं सन्निधौ परमेशितुः ।

2 sanskritdocuments.org
श्रीस्कन्दस्तवम्

तथाप्यनुग्रहो यन्ते यत्त्वं वदसि मां प्रति ॥ ४५॥


कृतार्थोऽहं महाप्राज्ञ विज्ञानकणमात्रतः ।
प्रेरितः परिपृच्छामि क्षन्तव्योतिक्रमो मम ॥ ४६॥
प्रणवो हि परः साक्षात्परमेश्वरवाचकः ।
वाच्यः पशुपतिर्देवः पशूनां पाशमोचकः ॥ ४७॥
वाचकेन समाहूतः पशून्मोचयते क्षणात्।
तस्माद्वाचकतासिद्धिः प्रणवेन शिवम्प्रति ॥ ४८॥
ॐ मितीदं सर्वमिति श्रुतिराह सनातनी ।
ओमिति ब्रह्म सर्वं हि ब्रह्मेति च समब्रवीत्॥ ४९॥
देवसेनापते तुभ्यन्देवानाम्पतये नमः ।
नमो यतीनाम्पतये परिपूर्णाय ते नमः ॥ ५०॥
एवं स्थिते जगत्यस्मिञ्छिवादन्यन्न विद्यते ।
सर्वरूपधरः स्वामी शिवो व्यापी महेश्वरः ॥ ५१॥
समष्टिव्यष्टिभावेन प्रणवार्थः श्रुतो मया ।
न जातुचिन्महासेन सम्प्राप्तस्त्वादृशो गुरुः ॥ ५२॥
अतः कृत्वानुकम्पां वै तमर्थं वक्तुमर्हसि ।
उपदेशविधानेन सदाचारक्रमेण च ॥ ५३॥
स्वाम्येकः सर्ब्वजन्तूनां पाशच्छेदकरो गुरुः ।
अतस्त्वत्कृपया सोऽर्थः श्रोतव्यो हि मया गुरो ॥ ५४॥
इति स मुनिना पृष्टः स्कन्दः प्रणम्य सदाशिवं
प्रणववपुषं साष्टत्रिंशत्कलावरलक्षितम्।
सहितमुनया शश्वत्पार्श्वे मुनिप्रवरान्वितं
गदितुमुपचक्राम श्रेयः श्रुतिष्वपि गोपितम्॥ ५५॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां
वामदेवब्रह्मवर्णनंनामैकादशोऽध्यायान्तर्गतम्स्कन्दस्तवं सम्पूर्णम्॥

shivapurANam, saMhitA 6 (kailAsasaMhitA), adhyAyaH 11


Although the initial stotra ends at verse 35, verse 44 onwards
also constitute relevant praise of Skanda, so is included

skandastavamvAmadeva.pdf 3
श्रीस्कन्दस्तवम्

for reference.
NA

Shri Skandastava
pdf was typeset on August 28, 2021

Please send corrections to sanskrit@cheerful.com

4 sanskritdocuments.org

You might also like