Download as pdf or txt
Download as pdf or txt
You are on page 1of 4

पाठ- २

मङ्गलवादः
अभ्यासः

I . एकवाक्येन उत्तरयत ।
१. कार्यकारणभावः कथं निश्चीयते ?
कार्यकारणभावः अन्वय-व्यतिरे कसहचाराभ्यां निश्चीयते ।
२. अन्वय-व्यभिचारो नाम कः ?
अन्वय-व्यभिचारो नाम कारणत्वेन अभिमतस्य सत्त्वेऽपि (कारण
सत्त्वेsपि) कार्यस्य अभावः ।
३. व्यतिरे कव्यभिचारः कुत्र प्रतिबन्धकः ?
व्यतिरे कव्यभिचारः व्यतिरे कसहचारज्ञानं प्रति प्रतिबन्धकः ।
४. मङ्गलं कुतः सफलम् ?
मङ्गलम् अविगीतशिष्टाचारविषयत्वात् सफलम् ।
५. आचारो नाम कः ?
आचारो नाम कृतिः ।
६. प्राचीनमते कादम्बर्यादौ कुतः न समाप्तिः ?
प्राचीनमते कादम्बर्यादौ मङ्गलानुष्ठानानन्तरं केषाञ्चनविघ्नानाम् उत्पन्नत्वात्,
विघ्नान्तरसद्भावात् न समाप्तिः ।
प्राचीनमते कादम्बर्यादौ विघ्नबाहुल्यात् बलवत्तरमङ्गलाभावात् वा न
समाप्तिः ।
७. नवीनमते आधुनिकग्रन्थेषु कुतो न व्यभिचारः ?
नवीनमते आधुनिकग्रन्थेषु विघ्नाः एव न सन्ति । यद्वा भोगादिना नष्टाः । अतः
न व्यभिचारः ।
८. विघ्नो नाम कः ?
विघ्नो नाम कार्यप्रतिबन्धकः पापविशेषः ।
९. किन्नाम मङ्गलम् ?
मङ्गलं नाम विघ्ननाशकः समाप्तिसाधकः कर्तव्यकर्मविशेषः ।
१०. मङ्गलं केन अन्यथा सिद्धम् ?
मङ्गलं समाप्तिं प्रति विघ्नध्वं सेन अन्यथासिद्धम् ।
II. द्वाभ्यां वाक्याभ्याम् उत्तरत ।
१. सफलत्वसाधकानुमाने शिष्टपदस्य किं कृत्यम् ?
केचन भूमौ निधिरस्तीति भ्रान्त्या नरबलिं यच्छन्ति । तत्र सफलत्वं नास्ति
आचारविषयत्वम् अस्तीति व्यभिचारः । तस्य व्यभिचारस्य वारणाय शिष्टपदम्
। ते च न शिष्टाः इति न व्यभिचारः ।
२. नवीनाः प्राचीनसिद्धान्तं कथं परिहसन्ति ?
नास्तिकात्मनि जन्मान्तरीयमङ्गलं कल्प्यते इति प्राचीनसिद्धान्तं नवीनाः एवं
परिहसन्ति " नहि भाविराज्यसम्भावनया अल्पवित्तव्ययायाससाध्यं
श्वेतच्छत्रम् अवश्यम् अर्जयति " इति । अर्थात् 'भविष्यति कदापि राज्यं प्राप्यते
इति आदौ एव यः कोsपि अनायासेन अल्पवित्तेन लभ्यं श्वेतच्छत्रं न
स्वीकरोति ' इति ।
३. कृतेऽपि मङ्गले क्वचित् कुतः न समाप्तिः ?
कृतेऽपि मङ्गले पुनः केचन विघ्नाः उत्पन्नाः । अतः विघ्नान्तरसद्भावात् न
समाप्तिः । बलवत्तरमङ्गलाभावात् वा न समाप्तिः ।
III. विस्तरे ण लिखत ।
१. मङ्गलस्य समाप्तिसाधनत्वे व्यभिचारं प्रदर्श्य परिहरत ।
मङ्गलं समाप्तिसाधनं इत्युक्तम् । तदयुक्तम् । कार्यकारणभावः
अन्वयव्यतिरे कसहचाराभ्यां निश्चीयते । प्रकृते मङ्गलस्य समाप्तेश्च
अन्वयव्यतिरे कसहचारौ न स्तः । प्रत्युत अन्वयव्यतिरे कव्यभिचारौ स्तः ।
तद्यथा कादम्बरीग्रन्थे कारणं मङ्गलम् अस्ति समाप्तिरूपकार्यं नास्ति इति
अन्वयव्यभिचारः । किरणावली ग्रन्थे मङ्गलरूपकारणं नास्ति समाप्तिरूपकार्यम्
अस्तीति व्यतिरे कव्यभिचारः । तस्मात् मङ्गलं न समाप्तिसाधनम् इति चेत् न ।
शिष्टैः नियमेन मङ्गलम् आचरितम् इति कारणेन मङ्गलस्य किञ्चित् फलम्
अस्ति इति सिद्ध्यति । तथा च अनुमानं " मङ्गलं सफलं
अविगीतशिष्टाचारविषयत्वात् दर्शादिवत् " इति । यथा शिष्टैः आचरितः
दर्शपूर्णमासयागः स्वर्गफलयुक्तः तथा शिष्टैः आचरितं मङ्गलम् अपि फलशालि
एव ।
तच्च फलं समाप्तिः एव । यतोहि निर्विघ्नेन समाप्तिः भवतु इत्युद्देशन
े एव
मङ्गले प्रवर्तन्ते । अतः मङ्गलस्य समाप्तिः फलम् । विघ्नध्वं सः व्यापारः ।
कादम्बर्यादौ न अन्वयव्यभिचारः । मङ्गले कृतेऽपि विघ्नान्तरसद्भावात् न
समाप्तिः । अथवा मङ्गलानन्तरं केचन विघ्नाः उत्पन्नाः , अतः न समाप्तिः यतोहि
समाप्तिं प्रति विघ्नान्यूनसङ्ख्याकमङ्गलं बलवत्तरं वा मङ्गलं कारणम् ।
कादम्बरीग्रन्थे तादृशमङ्गलाभावात् न अन्वयव्यभिचारः ।
यत्र मङ्गलं नास्ति समाप्तिश्च सम्पन्ना तत्र जन्मान्तरे तेन मङ्गलं अनुष्ठितमिति
कल्प्यते । तथा च जन्मान्तरीयमङ्गलरूपकारणम् समाप्तिरूपकार्यम् अपि
अस्तीति न व्यतिरे कव्यभिचारः ।
२. मङ्गलविषये प्राचीनमतं खण्डयित्वा नवीनानां सिद्धान्तं उपवर्णयत ।
नव्यमते मङ्गलस्य विघ्नध्वं स एव फलम् । समाप्तिस्तु बुद्धि-
प्रतिभादिकारणकलापात् इति । तन्मते समाप्तिं प्रति मङ्गलं नैव कारणम् ।
मङ्गले न विघ्नाः केवलं नश्यन्ति । एवञ्च तन्मते व्यभिचारः एवं परिहरणीयः ।
आधुनिकग्रन्थेषु विघ्ना एव न सन्ति । अतः विघ्नध्वं सरूपं कार्यमपि नास्ति ।
मङ्गलरूपं कारणमपि नास्ति इति न दोषः । कादम्बर्यादिषु अनुष्ठितं मङ्गलं ,
विघ्नध्वं सोऽपि जातः , अतः तत्र कारणमपि अस्ति, कार्यमपि अस्तीति न
व्यभिचारः इति ।
यत्र मङ्गलं नास्ति समाप्तिश्च जाता तत्र जन्मान्तरीयमङ्गलं कल्प्यते इति
प्राचीनसिद्धान्तं नवीनाः एवं परिहसन्ति " नहि भाविराज्यसम्भावनया
अल्पवित्तव्ययायाससाध्यं श्वेतच्छत्रम् अवश्यम् अर्जयति " इति । अर्थात्
'भविष्यति कदापि राज्यं प्राप्यते इति आदौ एव यः कोsपि अनायासेन
अल्पवित्तेन लभ्यं श्वेतच्छत्रं न सम्पादयति ' इति ।
IV. रिक्तस्थानं पूरयत ।
१. विश्वनाथः ग्रन्थादौ रुद्रं देवं स्मरति ।
२. भवः विधुं चूडामणिं कृतवान् ।
३. नव्यमते विघ्नध्वं स एव मङ्गलस्य फलम् ।
४. प्राचीनमते मङ्गलस्य समाप्तिः एव फलम् ।
५. कादम्बर्यादौ बलवत्तरमङ्गलाभाव कारणतः न समाप्तिः । ६. तत् सत्त्वे तत्
सत्त्वम् इति अन्वयसहचारः ।
७. व्यतिरे कव्यभिचारः व्यतिरे कसहचारं प्रतिबध्नाति ।
८. तन्त्वभावे पटस्य अभावः ।
९. मङ्गलं विघ्नध्वं सेन अन्यथासिद्धम् ।
१०. क्वचित् मङ्गलं विनापि भोगादिना विघ्नाः नष्टाः ।

इति शम् ।

You might also like