Download as txt, pdf, or txt
Download as txt, pdf, or txt
You are on page 1of 1

संभोगभाग्यभाक्त्वं विवेचकत्वं चोभयोः विहरणक्षमत्वं तस्य प्रदेशस्य निर्जनत्वादिति ध्वनितम् । ततस्ततः अनन्तरं किमभूदिति प्रश्नः।

चित्रलेखा -ततः तत्रोपवने मन्दाकिन्याः गङ्गायास्तीरे सिकतानिर्मितैः क्रीडनकभूतैः पर्वतैः क्रीडमाना उदयवती नाम्नी विद्याधरस्य कस्यचन दारिका कु मारिका तेन
राजर्षिणा चिरं निध्याता इति कृ त्वा अनेन कारणेन मे प्रियसखी उर्वशी तस्मै कु पिता क्रु द्धा। राजर्षिणा चिरं निध्यातेति कृ त्वा कु पिता मे प्रियसखी उर्वशी । ]

सहजन्या-असहणा खु सा । दूरारूढो अ से प्पणओ। ता भविदव्वदा एत्थ बलवदी । तदो तदो। [असहना खलु सा,

दूरारूढश्चास्याः प्रणयः । तद्भवितव्यतैवात्र बलवती । ततस्ततः।]

चित्रलेखा-तदो भत्तुणो अणुणअं अप्पडिवजमाणा गुरुसावसंमूढहिअआ विमुमरिददेवदाणिअमा अम्मकाजणपरिहरणिज्जं कु मारवणं पविट्टा । पवेसाणन्तरं अ
काणणोवंतवत्तिलदाभावेण परिणदं से रूवम् । [ ततो भर्तुरननुयमप्रतिपद्यमाना गुरुशापसंमूढहृदया विस्मृतदेवतानियमा स्त्रीजनपरिहरणीयं कु मारवनं प्रविष्टा । प्रवेशानन्तरं च
काननोपान्तवर्तिलताभावेन परिणतमस्या रूपम् । ]

सहजन्या-(सशोकम् ) सव्वधा णत्थि विहिणो अलंघणीअं णाम । जेण तारिसस्स अण्णारिसो एव्व पलिणामो संवुत्तो । तदो तदो। [सर्वथा नास्ति विधेरलङ्घनीयं
नाम । येन तादृशास्यान्या-

You might also like