Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

मंगलाचरण

ॐ अज्ञान तिमिरान्धस्य ज्ञानाञ्जन शलाकया


चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः

श्री चैतन्यमनोऽभीष्टं स्थापितं येन भूतले


स्वयं रूपः कदा मह्यं ददाति स्वपदान्तिकम्

वन्देऽहं श्रीगुरोः श्रीयुतपद कमलं श्रीगुरुन् वैष्णवांश्च


श्रीरूपं साग्रजातं सहगण रघुनाथान्वितं तं सजीवम्
साद्वैतं सावधूतं परिजन सहितं कृ ष्ण – चैतन्य – देवम्
श्रीराधा – कृ ष्ण – पादान् सहगण – ललिता श्रीविशाखान्वितांश्च

नम ॐ विष्णु – पादाय कृ ष्ण – प्रेष्ठाय भूतले


श्रीमते भक्तिवेदान्त स्वामिन् इति नामिने

नमस्ते सारस्वते देवे गौर – वाणी प्रचारिणे


निर्विशेष – शून्यवादी पाश्चात्य – देश – तारिणे
नमो महावदान्याय कृ ष्ण – प्रेम – प्रदाय ते
कृ ष्णाय कृ ष्ण – चैतन्य – नाम्ने गौरत्विषे नमः

हे कृ ष्ण करुणासिन्धो
दीनबन्धो जगत्पते
गोपेश गोपिकाकान्त
राधाकान्त नमोऽस्तुते

तप्तकाञ्चनगौराङ्गिराधे वृन्दावनेश्वरि
वृषभानुसुते देवी प्रणमामि हरिप्रिये

वाछां – कल्पतरुभ्यश्च कृ पा – सिन्धुभ्य एव च


पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः

( जय ) श्रीकृ ष्ण चैतन्य प्रभुनित्यानन्द


श्रीअद्वैत गदाधर श्रीवासादि – गौरभक्तवृन्द

हरे कृ ष्ण हरे कृ ष्ण कृ ष्ण कृ ष्ण हरे हरे ।


हरे राम हरे राम राम राम हरे हरे ।।

You might also like