Professional Documents
Culture Documents
kAkinIshvarasahasra 1
kAkinIshvarasahasra 1
.. kAkinyaShTottarasahasranAmastotra ..
sanskritdocuments.org
August 2, 2016
.. kAkinyaShTottarasahasranAmastotra ..
॥ काकिन्यष्टोत्तरसहस्रनामस्तोत्र ॥
Document Information
August 2, 2016
sanskritdocuments.org
.. kAkinyaShTottarasahasranAmastotra ..
॥ काकिन्यष्टोत्तरसहस्रनामस्तोत्र ॥
श्रीगणेशाय नमः ।
श्रीआनन्दभैरव उवाच ।
वद कल्याणि कामेशि त्रैलोक्यपरिपूजिते ।
ब्रह्माण्डानन्तनिलये कैलासशिखरोज्ज्वले ॥ १ ॥
कालिके कालरात्रिस्थे महाकालनिषेविते ।
शब्दब्रह्मस्वरूपे त्वं वक्तुमर्हसि सादरात्॥ २ ॥
सहस्रनामयोगाख्यम्अष्टोत्तरमनन्तरम्।
अनन्तकोटिब्रह्माण्डं सारं परममङ्गलम्॥ ३ ॥
ज्ञानसिद्धिकरं साक्षाद् अत्यन्तानन्दवर्धनम्।
सङ्केतशब्दमोक्षार्थं काकिनीश्वरसंयुतम्॥ ४ ॥
परानन्दकरं ब्रह्म निर्वाणपदलालितम्।
स्नेहादभिसुखानन्दादादौ ब्रह्म वरानने ॥ ५ ॥
इच्छामि सर्वदा मातर्जगतां सुरसुन्दरि ।
स्नेहानन्दरसोद्रेकसम्बन्धान्कथय द्रुतम्॥ ६ ॥
श्रीआनन्दभैरवी उवाच
ईश्वर श्रीनीलकण्ठ नागमालाविभूषितः ।
नागेन्द्रचित्रमालाढ्य नागाधिपरमेश्वरः ॥ ७ ॥
काकिनीश्वरयोगाढ्यं सहस्रनाम मङ्गलम्।
अष्टोत्तरं वृताकारं कोटिसौदामिनीप्रभम्॥ ८ ॥
आयुरारोग्यजननं शृणुष्वावहितो मम ।
अनन्तकोटिब्रह्माण्डसारं नित्यं परात्परम्॥ ९ ॥
साधनं ब्रह्मणो ज्ञानं योगानां योगसाधनम्।
सार्वज्ञगुह्यसंस्कारं संस्कारादिफलप्रदम्॥ १० ॥
वाञ्छासिद्धिकरं साक्षान्महापातकनाशनम्।
महादारिद्र्यशमनं महैश्वर्यप्रदायकम्॥ ११ ॥
जपेद्यः प्रातरि प्रीतो मध्याह्नेऽस्तमिते रवौ ।
नमस्कृत्य जपेन्नाम ध्यानयोगपरायणः ॥ १२ ॥
काकिनीश्वरसंयोगं ध्यानं ध्यानगुणोदयम्।
आदौ ध्यानं समाचर्य निर्मलोऽमलचेतसा ॥ १३ ॥
kAkinIshvarasahasra.pdf 1
॥ काकिन्यष्टोत्तरसहस्रनामस्तोत्र ॥
2 sanskritdocuments.org
.. kAkinyaShTottarasahasranAmastotra ..
केशकिञ्जल्ककुटिलः कामराजकुतूहला ॥ २८ ॥
करकोटिधरः कूटा क्रियाक्रूरः क्रियावती ।
कुम्भहा कुम्भहन्त्री च कटकच्छकलावती ॥ २९ ॥
कञ्जवक्त्रः कालमुखी कोटिसूर्यकरानना ।
कम्रः कलपः समृद्धिस्था कुपोऽन्तस्थः कुलाचला ॥ ३० ॥
कुणपः कौलपाकाशा स्वकान्तः कामवासिनी ।
सुकृतिः शाङ्करी विद्या कलकः कलनाश्रया ॥ ३१ ॥
कर्कन्धुस्थः कौलकन्या कुलीनः कन्यकाकुला ।
कुमारः केशरी विद्या कामहा कुलपण्डिता ॥ ३२ ॥
कल्कीशः कमनीयाङ्गी कुशलः कुशलावती ।
केतकीपुष्पमालाढ्यः केतकीकुसुमान्विता ॥ ३३ ॥
कुसुमानन्दमालाढ्यः कुसुमामलमालिका ।
कवीन्द्रः काव्यसम्भूतः काममञ्जीररञ्जिनी ॥ ३४ ॥
कुशासनस्थः कौशल्याकुलपः कल्पपादपा ।
कल्पवृक्षः कल्पलता विकल्पः कल्पगामिनी ॥ ३५ ॥
कठोरस्थः काचनिभा करालः कालवासिनी ।
कालकूटाश्रयानन्दः कर्कशाकाशवाहिनी ॥ ३६ ॥
कटधूमाकृतिच्छायो विकटासनसंस्थिता ।
कायधारी कूपकरी करवीरागतः कृषी ॥ ३७ ॥
कालगम्भीरनादान्ता विकलालापमानसा ।
प्रकृतीशः सत्प्रकृतिः प्रकृष्टः कर्षिणीश्वरी ॥ ३८ ॥
भगवान्वारुणीवर्णा विवर्णो वर्णरूपिणी ।
सुवर्णवर्णो हेमाभो महान्महेन्द्रपूजिता ॥ ३९ ॥
महात्मा महतीशानी महेशो मत्तगामिनी ।
महावीरो महावेगा महालक्ष्मीश्वरो मतिः ॥ ४० ॥
महादेवो महादेवी महानन्दो महाकला ।
महाकालो महाकाली महाबलो महाबला ॥ ४१ ॥
महामान्यो महामान्या महाधन्यो महाधनी ।
महामालो महामाला महाकाशो महाकाशा ॥ ४२ ॥
महायशो महायज्ञा महाराजो महारजा ।
महाविद्यो महाविद्या महामुख्यो महामखी ॥ ४३ ॥
kAkinIshvarasahasra.pdf 3
॥ काकिन्यष्टोत्तरसहस्रनामस्तोत्र ॥
4 sanskritdocuments.org
.. kAkinyaShTottarasahasranAmastotra ..
kAkinIshvarasahasra.pdf 5
॥ काकिन्यष्टोत्तरसहस्रनामस्तोत्र ॥
6 sanskritdocuments.org
.. kAkinyaShTottarasahasranAmastotra ..
kAkinIshvarasahasra.pdf 7
॥ काकिन्यष्टोत्तरसहस्रनामस्तोत्र ॥
घण्टाकोटिमहानादमानन्दलोलविग्रहः ॥ १०४ ॥
घण्टाडमरुमन्त्रादि ध्यानानन्दकराम्बुजा ।
घटकोटिकोटिशतसहस्रमङ्गलासना ॥ १०५ ॥
घण्टाशङ्खपद्मचक्रवराभयकराम्बुजा ।
घातको रिपुकोटीनां शुम्भादीनां तथा सताम्॥ १०६ ॥
घातिनीदैत्यघोराश्च शङ्खानां सततं तथा ।
चार्वाकमतसङ्घातचतुराननपङ्कजः ॥ १०७ ॥
चञ्चलानन्दसर्वार्थसारवाग्वादिनीश्वरी ।
चन्द्रकोटिसुनिर्माल मालालम्बितकण्ठभृत्॥ १०८ ॥
चन्द्रकोटिसमानस्य पङ्केरुहमनोहरा ।
चन्द्रज्योत्स्नायुतप्रख्यहारभूषितमस्तकः ॥ १०९ ॥
चन्द्रबिम्बसहस्राभायुतभूषितमस्तकः ।
चारुचन्द्रकान्तमणिमणिहारायुताङ्गभृत्॥ ११० ॥
चन्दनागुरुकस्तूरी कुङ्कुमासक्तमालिनी ।
चण्डमुण्डमहामुण्डायुतनिर्मलमाल्यभृत्॥ १११ ॥
चण्डमुण्डघोरमुण्डनिर्माणकुलमालिनी ।
चण्डाट्टहासघोराढ्यवदनाम्भोजचञ्चलः ॥ ११२ ॥
चलत्खञ्जननेत्राम्भोरुहमोहितशङ्करा ।
चलदम्भोजनयनानन्दपुष्पकरमोहितः ॥ ११३ ॥
चलदिन्दुभाषमाणावग्रहखेदचन्द्रिका ।
चन्द्रार्धकोटिकिरणचूडामण्डलमण्डितः ॥ ११४ ॥
चन्द्रचूडाम्भोजमाला उत्तमाङ्गविमण्डितः ।
चलदर्कसहस्रान्त रत्नहारविभूषितः ॥ ११५ ॥
चलदर्ककोटिशतमुखाम्भोजतपोज्ज्वला ।
चारुरत्नासनाम्भोजचन्द्रिकामध्यसंस्थितः ॥ ११६ ॥
चारुद्वादशपत्रादि कर्णिकासुप्रकाशिका ।
चमत्कारगटङ्कारधुनर्बाणकराम्बुजः ॥ ११७ ॥
चतुर्थवेदगाथादि स्तुतिकोटिसुसिद्धिदा ।
चलदम्बुजनेत्रार्कवह्निचन्द्रत्रयान्वितः ॥ ११८ ॥
चलत्सहस्रसङ्ख्यात पङ्कजादिप्रकाशिका ।
8 sanskritdocuments.org
.. kAkinyaShTottarasahasranAmastotra ..
kAkinIshvarasahasra.pdf 9
॥ काकिन्यष्टोत्तरसहस्रनामस्तोत्र ॥
10 sanskritdocuments.org
.. kAkinyaShTottarasahasranAmastotra ..
kAkinIshvarasahasra.pdf 11
॥ काकिन्यष्टोत्तरसहस्रनामस्तोत्र ॥
12 sanskritdocuments.org
.. kAkinyaShTottarasahasranAmastotra ..
kAkinIshvarasahasra.pdf 13
॥ काकिन्यष्टोत्तरसहस्रनामस्तोत्र ॥
अनन्तभुजराजेन्द्रो अनन्ताक्षरनाशिनी ।
आशीर्वादस्तु वरदोऽनुग्रहोऽनुग्रहक्रिया ॥ १९५ ॥
प्रेतासनसमासीनो मेरुकुञ्जनिवासिनी ।
मणिमन्दिरमध्यस्थो मणिपीठनिवासिनी ॥ १९६ ॥
सर्वप्रहरणः प्रेतो विधिविद्याप्रकाशिनी ।
प्रचण्डनयनानन्दो मञ्जीरकलरञ्जिनी ॥ १९७ ॥
कलमञ्जीरपादाब्जो बलमृत्युपरायणा ।
कुलमालाव्यापिताङ्गः कुलेन्द्रः कुलपण्डिता ॥ १९८ ॥
बालिकेशो रुद्रचण्डा बालेन्द्राः प्राणबालिका ।
कुमारीशः काममाता मन्दिरेशः स्वमन्दिरा ॥ १९९ ॥
अकालजननीनाथो विदग्धात्मा प्रियङ्करी ।
वेदाद्यो वेदजननी वैराग्यस्थो विरागदा ॥ २०० ॥
स्मितहास्यास्यकमलः स्मितहास्यविमोहिनी ।
दन्तुरेशो दन्तुरु च दन्तीशो दर्शनप्रभा ॥ २०१ ॥
दिग्दन्तो हि दिग्दशना भ्रष्टभुक् चर्वणप्रिया ।
मांसप्रधाना भोक्ता च प्रधानमांसभक्षिणी ॥ २०२ ॥
मत्स्यमांसमहामुद्रा रजोरुधिरभुक्प्रिया ।
सुरामांसमहामीनमुद्रामैथुनसुप्रिया ॥ २०३ ॥
कुलद्रव्यप्रियानन्दो मद्यादिकुलसिद्धिदा ।
हृत्कण्ठभ्रूसहस्रारभेदनोऽन्ते विभेदिनी ॥ २०४ ॥
प्रसन्नहृदयाम्भोजः प्रसन्नहृदयाम्बुजा ।
प्रसन्नवरदानाढ्यः प्रसन्नवरदायिनी ॥ २०५ ॥
प्रेमभक्तिप्रकाशाढ्यः प्रेमानन्दप्रकाशिनी ॥ २०६ ॥
प्रभाकरफलोदयः परमसूक्ष्मपुरप्रिया ।
प्रभातरविरश्मिगः प्रथमभानुशोभान्विता ।
प्रचण्डरिपुमन्मथः प्रचलितेन्दुदेहोद्गतः ।
प्रभापटलपाटलप्रचयधर्मपुञ्जाचीता ॥ २०७ ॥
सुरेन्द्रगणपूजितः सुरवरेशसम्पूजिता ।
सुरेन्द्रकुल सेवितो नरपतीन्द्रसंसेविता ।
गणेन्द्र गणनायको गणपतीन्द्र देवात्मजा ।
भवार्णवर्गतारको जलधिकर्णधारप्रिया ॥ २०८ ॥
14 sanskritdocuments.org
.. kAkinyaShTottarasahasranAmastotra ..
सुरासुरकुलोद्भवः सुररिपुप्रसिद्धिस्थिता
सुरारिगणघातकः सुरगणेन्द्रसंसिद्धिदा ।
अभीप्सितफलप्रदः सुरवरादिसिद्धिप्रदा
प्रियाङ्गज कुलार्थदः सुतधनापवर्गप्रदा ॥ २०९ ॥
शिवस्वशिवकाकिनी हरहरा च भीमस्वना
क्षितीश इषुरक्षका समनदर्पहन्तोदया ।
गुणेश्वर उमापती हृदयपद्मभेदी गतिः
क्षपाकरललाटधृक् स्वसुखमार्गसन्दायिनी ॥ २१० ॥
श्मशानतटनिष्पट प्रचटहासकालङ्कृता
हठत्शठमनस्तटे सुरकपाटसंछेदकः ।
स्मराननविवर्धनः प्रियवसन्तसम्बायवी
विराजितमुखाम्बुजः कमलमञ्जसिंहासना ॥ २११ ॥
भवो भवपतिप्रभाभवः कविश्च भाव्यासुरैः
क्रियेश्वर ईलावती तरुणगाहितारावती ।
मुनीन्द्रमनुसिद्धिदः सुरमुनीन्द्रसिद्धायुषी
मुरारिहरदेहगस्त्रिभुवना विनाशक्रिया ॥ २१२ ॥
द्विकः कनककाकिनी कनकतुङ्गकीलालकः
कमलाकुलः कुलकलार्कमालामला ।
सुभक्त तमसाधकप्रकृतियोगयोग्यार्चितो
विवेकगतमानसः प्रभुपरादिहस्ताचीता ॥ २१३ ॥
त्वमेव कुलनायकः प्रलययोगविद्येश्वरी
प्रचण्डगणगो नगाभुवनदर्पहारी हरा ।
चराचरसहस्रगः सकलरूपमध्यस्थितः
स्वनामगुणपूरकः स्वगुणनामसम्पूरणी ॥ २१४ ॥
इति ते कथितं नाथ सहस्रनाम मङ्गलम्।
अत्यद्भुतं परानन्दरससिद्धान्तदायकम्॥ २१५ ॥
मातृकामन्त्रघटितं सर्वसिद्धान्तसागरम्।
सिद्धविद्यामहोल्लास मानन्दगुणसाधनम्॥ २१६ ॥
दुर्लभं सर्वलोकेषु यामले तत्प्रकाशितम्।
तव स्नेहरसामोदमोहितानन्दभैरव ॥ २१७ ॥
कुत्रापि नापि कथितं स्वसिद्ध हानिशङ्कया ।
सर्वादियोग सिद्धान्तसिद्धये भुक्तिमुक्तये ॥ २१८ ॥
kAkinIshvarasahasra.pdf 15
॥ काकिन्यष्टोत्तरसहस्रनामस्तोत्र ॥
16 sanskritdocuments.org
.. kAkinyaShTottarasahasranAmastotra ..
.. kAkinyaShTottarasahasranAmastotra ..
was typeset on August 2, 2016
kAkinIshvarasahasra.pdf 17