Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 2

Este texto es parte de “The Sanskrit Language” de W.

Maurer

Ejercicios Lección 3
Gerundio e Infinitivo

1. एकदा कश्चिद् नृपः सूतं अवदत् वनं मां नय सूत इति।

2. नृपस्य वचनं श्रुत्वा सूतः यथा आज्ञापयति देवः इति उक्त्वा शुभान् श्वेतान् अश्वान् रथे अयोजयत्।

3. ततः सर्वैः आभरणैः समुपेतः महाराजः रथं आरुह्य सूतस्य पार्श्वे अतिष्ठत्।

4. तदनन्तरं नगरस्य मध्येन सत्वरं गत्वा वनं अविशत्।

5. तत्र न्यग्रोधपादपस्य अधस्तात् रथं स्थापयित्वा सूतः महाराजं अवदत् अत्र वनं कु त्र अधुना देवः गन्तुं इच्छति इति।

6. तापसानां आश्रमस्य समीपे जलाशयं गन्तुं इच्छामि इति नृपः सूतं प्रत्यवदत्।

7. तथा इति उक्त्वा सूतः जलाशयं रथं अवहत्।

8. जलाशयं आगम्य महाराजः अतीव संतुष्टः अभवत्।

9. तीरस्य समीपे चित्राणि कमलानि दूरे अनेकान् हंसान् अपश्यत्।


10. विहगाः अगायन्।

11. वृक्षाणां षण्डस्य पश्चात् वंशस्य शब्दः उदगच्छत्।

12. ततः महाराजः सूतं अवदत्।

13. अहो रमणीयं अहो सुन्दरं सर्वं अत्र भवति।

1
Este texto es parte de “The Sanskrit Language” de W. Maurer

14. अत्रैव स्वर्गस्य खण्डं दृष्ट्वा नरः कस्मात् कारणात्1 स्वर्गं गन्तुं इच्छति इति ।

1
कस्मात् कारणात् “¿Por qué razón?”
2

You might also like