Download as doc, pdf, or txt
Download as doc, pdf, or txt
You are on page 1of 18

श्रीहनुमत्कवचम्

श्रीरामदास उवाच -

एकदा सुखमासीनं शङ्करं लोकशङ्करम् ।

पप्रच्छ गिरिजाकान्तं कर्पूरधवलं शिवम् ॥ १॥

पार्वत्युवाच -

भगवन् देवदेवेश लोकनाथ जगत्प्रभो ।

शोकाकु लानां लोकानां के न रक्षा भवेद्ध्रुवम् ॥ २॥

सङ्ग्रामे सङ्कटे घोरे भूतप्रेतादिके भये ।

दुःखदावाग्निसन्तप्तचेतसां दुःखभागिनाम् ॥ ३॥

श्रीशिव उवाच -

श‍ृणु देवि प्रवक्ष्यामि लोकानां हितकाम्यया ।

विभीषणाय रामेण प्रेम्णा दत्तं च यत्पुरा ॥ ४॥

कवचं कपिनाथस्य वायुपुत्रस्य धीमतः ।


गुह्यं तत्ते प्रवक्ष्यामि विशेषाच्छृ णु सुन्दरि ॥ ५॥

उद्यदादित्यसङ्काशमुदारभुजविक्रमम् ।

कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम् ॥ ६॥

श्रीरामहृदयानन्दं भक्तकल्पमहीरुहम् ।

अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ ७॥

हनुमानञ्जनासूनुर्वायुपुत्रो महाबलः ।

रामेष्टः फाल्गुनसखः पिङ्गाक्षोऽमितविक्रमः ॥ ८॥

उदधिक्रमणश्चैव सीताशोकविनाशनः ।

लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥ ९॥

एवं द्वादश नामानि कपीन्द्रस्य महात्मनः ।

स्वापकाले प्रबोधे च यात्राकाले च यः पठे त् ॥ १०॥

तस्य सर्वभयं नास्ति रणे च विजयी भवेत् ।


राजद्वारे गह्वरे च भयं नास्ति कदाचन ॥ ११॥

उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं


जनकात्म्यजायाः ।

आदाय तेनैव ददाह लङ्कां नमामि तं प्राजलिराञ्जनेयम् ॥


१२॥

ॐ नमो हनुमते सर्वग्रहान् भूतभविष्यद्वर्तमानान्


समीपस्थान्

सर्वकालदुष्टबुद्धीनुच्चाटय परबलान् क्षोभय मम सर्वकार्याणि


साधय साधय ।

ॐ ह्रां ह्रौं हुं फट । घे घे घे ॐ शिवसिद्धम् ।

ॐ ह्रां ॐ ह्रीं ॐ ह्रूं ॐ ह्रैं ॐ ह्रौं ॐ ह्रःस्वाहा ।

परकृ तयन्त्रमन्त्रतन्त्रपरापकारभूतप्रेतपिशाचदृष्टिसव

विघ्नदुर्जनचेष्टाकु विद्यासर्वोग्रभयानि निवारय निवारय बन्ध


बन्ध,

लुण्ठ लुण्ठ विलुञ्च विलुञ्च किलि किलि किलि


सर्वकु यन्त्राणि
दुष्टवाचं ॐ फट स्वाहा ।

ॐ अस्य श्रीहनुमत्कवचस्तोत्रमन्त्रस्य श्रीरामचन्द्र ऋषिः ।

श्रीहनुमान् परमात्मा देवता । अनुष्टु प्छन्दः । मारुतात्मज


इति बीजम् ।

अञ्जनासूनुरिति शक्तिः । लक्ष्मणप्राणदातेति कीलकम् ।


रामदूतायेत्यस्त्रम् ।

हनुमान् देवता इति कवचम् । पिङ्गाक्षोऽमितविक्रम इति


मन्त्रः ।

श्रीरामचन्द्रप्रेरणया रामचन्द्रप्रीत्यर्थं मम
सकलकामनासिद्धयर्थं

जपे विनियोगः ।

अथ अङ्गुलिन्यासः ।

ॐ ह्रां अञ्जनासुताय अङ्गुष्ठाभ्यां नमः ।

ॐ ह्रीं रुद्रमूर्तये तर्जनीभ्यां नमः ।

ॐ ह्रूं रामदूताय मध्यमाभ्यां नमः ।

ॐ ह्रैं वायुपुत्राय अनामिकाभ्यां नमः ।


ॐ ह्रौं अग्निगर्भाय कनिष्ठिकाभ्यां नमः ।

ॐ ह्रः ब्रह्मास्त्रनिवारणाय करतलकरपृष्ठाभ्यां नमः ॥

अङ्गन्यासः ।

ॐ ह्रां अञ्जनासुताय हृदयाय नमः ।

ॐ ह्रीं रुद्रमूर्तये शिरसे स्वाहा ।

ॐ ह्रूं रामदूताय शिखायै वषट् ।

ॐ ह्रैं वायुपुत्राय कवचाय हुं ।

ॐ ह्रौं अग्निगर्भाय नेत्रत्रयाय वौषट् ।

ॐ ह्रः ब्रह्मास्त्रनिवारणाय अस्त्राय फट् ।

भूर्भुवःसुवरोमिति दिग्बन्धः ॥

अथ ध्यानम् ।

ध्यायेद्बालदिवाकरद्युतिनिभं देवारिदर्पापपहं

देवेन्द्रप्रमुखं प्रशस्तयशसं देदीप्यमानं रुचा ।

सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं
संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृ तम् ॥ १॥

उद्यन्मार्ताण्डकोटिप्रकटरुचियुतं चारुवीरासनस्थं

मौञ्जीयज्ञोपवीताभरणरुचिशिखं शोभितं कु ण्डलाङ्कम्


भक्तानामिष्टदं तं प्रणतमुनिजनं वेदनादप्रमोदं

ध्यायेदेवं विधेमं प्लगकु लपतिं गोष्पदीभूतवार्धिम् ॥ २॥

वज्राङ्गं पिङ्गके शाढ्यं स्वर्णकु ण्डलमण्डितम् ।

निगूढमुपसङ्गम्य पारावारपराक्रमम् ॥ ३॥

स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृ ताञ्जलिम् ।

कु ण्डलद्वयसंशोभिमुखाम्भोजं हरिं भजे ॥ ४॥

सव्यहस्ते गदायुक्तं वामहस्ते कमण्डलुम् ।

उद्यद्दक्षिणदोर्दण्डं हनुमन्तं विचिन्तयेत् ॥ ५॥

अथ मन्त्रः ।
O न्नमो हनुमते शोभिताननाय यशोऽलङ्कृ ताय
अञ्जनीगर्भसम्भूताय

रामलक्ष्मणानन्दकाय कपिसैन्यप्रकाशनपर्वतोत्पाटनाय
सुग्रीवसाह्यकरणपरोच्चाटनकु मारब्रह्मचर्यगम्भीरशब्दोदाय

ह्रीं सर्वदुष्टग्रहनिवारणाय स्वाहा ।

O न्नमो हनुमते एहि एहि एहि

सर्वग्रहभूतानां शाकिनीडाकिनीनां विषमदुष्टानां

सर्वेषामाकर्षयाकर्षय । मर्दय मर्दय । छे दय छे दय ।

मर्त्यान् मारय मारय । शोषय शोषय । प्रज्वल प्रज्वल ।

भूतमण्डलपिशाचमण्डलनिरसनाय ।

भूतज्वर-प्रेतज्वर-चातुर्थिकज्वर-ब्रह्मराक्षस-
पिशाचछे दनक्रिया-

विष्णुज्वर-महेशज्वरान् छिन्धि छिन्धि । भिन्धि भिन्धि ।

अक्षिशूले शिरोऽभ्यन्तरे ह्यक्षिशूले गुल्मशूले

पित्तशूले ब्रह्मराक्षसकु लप्रबलनागकु लविषं निर्विषं कु रु


झटितिझटिति ।
ॐ ह्रीं फट् घे घे स्वाहा ।

ॐ नमो हनुमते पवनपुत्र वैश्वानरमुख पापदृष्टिहनुमतेको

आज्ञाफु रे स्वाहा ।

स्वगृहे द्वारे पट्टके तिष्ठ तिष्ठेति तत्र रोगभयं राजकु लभयं


नास्ति,

तस्योच्चारणमात्रेण सर्वे ज्वरा नश्यन्ति ।

ॐ ह्रां ह्रीं ह्रूं फट् घे घे स्वाहा ।

श्रीरामचन्द्र उवाच-

हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः ।

पातु प्रतीच्यां रक्षोघ्नः पातु सागरपारगः ॥ १॥

उदीच्यामूर्ध्वतः पातु के सरीप्रियनन्दनः ।

अधस्तु विष्णुभक्तस्तु पातु मध्यं च पावनिः ॥ २॥

लङ्काविदाहकः पातु सर्वापद्भ्यो निरन्तरम् ।

सुग्रीवसचिवः पातु मस्तकं वायुनन्दनः ॥ ३॥


भालं पातु महावीरो भ्रुवोर्मध्ये निरन्तरम् ।

नेत्रे छायापहारी च पातु नः प्लवगेश्वरः ॥ ४॥

कपोले कर्णमूले च पातु श्रीरामकिङ्करः ।

नासाग्रमञ्जनासूनुः पातु वक्त्रं हरीश्वरः ॥

वाचं रुद्रप्रियः पातु जिह्वां पिङ्गललोचनः ॥ ५॥

पातु देवः फाल्गुनेष्टः चिबुकं दैत्यदर्पहा ।

पातु कण्ठं च दैत्यारिः स्कन्धौ पातु सुरार्चितः ॥ ६॥

भुजौ पातु महातेजाः करौ च चरणायुधः ।

नखान् नखायुधः पातु कु क्षौ पातु कपीश्वरः ॥ ७॥

वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः ।

लङ्काविभञ्जनः पातु पृष्ठदेशे निरन्तरम् ॥ ८॥

नाभिं च रामदूतस्तु कटिं पात्वनिलात्मजः


गुह्यं पातु महाप्राज्ञो लिङ्गं पातु शिवप्रियः ॥ ९॥

ऊरू च जानुनी पातु लङ्काप्रासादभञ्जनः ।

जङ्घे पातु कपिश्रेष्ठो गुल्फौ पातु महाबलः ।

अचलोद्धारकः पातु पादौ भास्करसन्निभः ॥ १०॥

अङ्गान्यमितसत्त्वाढ्यः पातु पादाङ्गुलींस्तथा ।

सर्वाङ्गानि महाशूरः पातु रोमाणि चात्मवित् ॥ ११॥

हनुमत्कवचं यस्तु पठे द्विद्वान् विचक्षणः ।

स एव पुरुषश्रेष्ठो भुक्तिं मुक्तिं च विन्दति ॥ १२॥

त्रिकालमेककालं वा पठे न्मासत्रयं नरः ।

सर्वान् रिपून् क्षणाज्जित्वा स पुमान् श्रियमाप्नुयात् ॥ १३॥

मध्यरात्रौ जले स्थित्वा सप्तवारं पठे द्यदि ।

क्षयापस्मारकु ष्ठादि तापत्रयनिवारणम् ॥ १४॥


अश्वत्थमूलेऽर्क वारे स्थित्वा पठति यः पुमान् ।

अचलां श्रियमाप्नोति सङ्ग्रामे विजयं तथा ॥ १५॥

बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगताम् ।

सुदार्ढ्यं वाक्स्फु रत्वं च हनुमत्स्मरणाद्भवेत् ॥ १६॥

मारणं वैरिणां सद्यः शरणं सर्वसम्पदाम् ।

शोकस्य हरणे दक्षं वन्दे तं रणदारुणम् ॥ १७॥

लिखित्वा पूजयेद्यस्तु सर्वत्र विजयी भवेत् ।

यः करे धारयेन्नित्यं स पुमान् श्रियमाप्नुयात् ॥ १८॥

स्थित्वा तु बन्धने यस्तु जपं कारयति द्विजैः ।

तत्क्षणान्मुक्तिमाप्नोति निगडात्तु तथैव च ॥ १९॥

ईश्वर उवाच -

भान्विन्दोश्चरणारविन्दयुगलं कौपीनमौञ्जीधरं

काञ्चिश्रेणिधरं दुकू लवसनं यज्ञोपवीताजिनम् ।


हस्ताभ्यां धृतपुस्तकं च विलसद्धारावलिं कु ण्डलं

यश्चालं विशिखं प्रसन्नवदनं श्रीवायुपुत्रं भजे ॥ २०॥

यो वारान्निधिमल्पपल्बलमिवोल्लङ्घ्य प्रतापान्वितो

वैदेहीघनशोकतापहरणो वैकु ण्ठभक्तप्रियः ।

अक्षाद्यार्जितराक्षसेश्वरमहादोषहारी रणे

सोऽयं वानरपुङ्गवोऽवतु सदा योऽस्मान्समीरात्मजः ॥


२१॥

वज्राङ्गं पिङ्गनेत्रं कनकमयलसत्कु ण्डलाक्रान्तगण्डं

दम्भोलिस्तम्भसारं प्रहरणसुवशीभूतरक्षोऽधिनाथम् ।

उद्यल्लाङ्गूलसप्तप्रचलचलधरं भीममूर्तिं कपीन्द्रं

ध्यायेत्तं रामचन्द्रं भ्रमरदृढकरं सत्त्वसारं प्रसन्नम् ॥ २२॥

वज्राङ्गं पिङ्गनेत्रं कनकमयलसत्कु ण्डलैः शोभनीयं

सर्वापीड्यादिनाथं करतलविधृतं पूर्णकु म्भं दृढं वा ।

भक्तानामिष्टकारं विदधति च सदा सुप्रसन्नं हरांशं


त्रैलोक्यत्रातुकामं सकलभुवि गतं रामदूतं नमामि ॥ २३॥

वामे करे वैरिभिदं वहन्तं शैलं परं श‍ृङ्खलहारकण्ठम् ।

दधानमाच्छाद्य सुपर्णवर्णं भजे ज्वलत्कु ण्डलमाञ्जनेयम् ॥


२४॥

पद्मरागमणिकु ण्डलत्विषा पाटलीकृ तकपोलमण्डलम् ।

दिव्यदेहकदलीवनान्तरे भावयामि पवमाननन्दनम् ॥ २५॥

यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृ तमस्तकाञ्जलिम् ।

वाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् । २६॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ २७॥

विवादे दिव्यकाले च द्यूते राजकु ले रणे ।

दशवारं पठे द्रात्रौ मिताहारो जितेन्द्रियः ॥ २८॥


विजयं लभते लोके मानवेषु नरेषु च ।

भूते प्रेते महादुर्गेऽरण्ये सागरसम्प्लवे । २९॥

सिंहव्याघ्रभये चोग्रे शरशस्त्रास्त्रपातने ।

श‍ृङ्खलाबन्धने चैव कारागृहनियन्त्रणे ॥ ३०॥

कोपे स्तम्भे वह्निचक्रे क्षेत्रे घोरे सुदारुणे ।

शोके महारणे चैव ब्रह्मग्रहनिवारणम् ॥ ३१॥

सर्वदा तु पठे न्नित्यं जयमाप्नोति निश्चितम् ।

भूर्जे वा वसने रक्ते क्षौमे वा तालपत्रके ॥ ३२॥

त्रिगन्धिना वा मष्या वा विलिख्य धारयेन्नरः ।

पञ्चसप्तत्रिलोहैर्वा गोपितः सर्वतः शुभम् ॥ ३३॥

करे कट्यां बाहुमूले कण्ठे शिरसि धारितम् ।

सर्वान्कामानवाप्नोति सत्यं श्रीरामभाषितम् ॥ ३४॥


अपराजित नमस्तेऽस्तु नमस्ते रामपूजित ।

प्रस्थानं च करिष्यामि सिद्धिर्भवतु मे सदा ॥ ३५॥

इत्युक्त्वा यो व्रजेद्ग्रामं देशं तीर्थान्तरं रणम् ।

आगमिष्यति शीघ्रं स क्षेमरूपो गृहं पुनः ॥ ३६॥

इति वदति विशेषाद्राघवे राक्षसेन्द्रः

प्रमुदितवरचित्तो रावणस्यानुजो हि ।

रघुवरपदपद्मं वन्दयामास भूयः

कु लसहितकृ तार्थः शर्मदं मन्यमानः ॥ ३७॥

तं वेदशास्त्रपरिनिष्टितशुद्धबुद्धिं

शर्मप्रदं सुरमुनीन्द्रनुतं कपीन्द्रम् ।

कृ ष्णत्वचं कनकपिङ्गजटाकलापं

व्यासं नमामि शिरसा तिलकं मुनीनाम् ॥ ३८॥

य इदं प्रातरुत्थाय पठे त कवचं सदा ।


आयुरारोग्यसन्तानैस्तस्य स्तव्यः स्तवो भवेत् ॥ ३९॥

एवं गिरीन्द्रजे श्रीमद्धनुमत्कवचं शुभम् ।

त्वया पृष्टं मया प्रीत्या विस्तराद्विनिवेदितम् ॥ ४०॥

श्रीरामदास उवाच -

एवं शिवमुखाच्छ्रुत्वा पार्वती कवचं शुभम् ।

हनूमतः सदा भक्त्या पपाठ तन्मनाः सदा ॥ ४१॥

एवं शिष्य त्वयाऽप्यत्र यथा पृष्टं तथा मया ।

हनुमत्कवचं चेदं तवाग्रे विनिवेदितम् ॥ ४२॥

इदं पूर्वं पठित्वा तु रामस्य कवचं ततः ।

पठनीयं नरैर्भक्त्या नैकमेव पठे त्कदा ॥ ४३॥

हनुमत्कवचं चात्र श्रीरामकवचं विना ।

ये पठन्ति नराश्चात्र पठनं तद्वृथा भवेत् ॥ ४४॥


तस्मात्सर्वैः पठनीयं सर्वदा कवचद्वयम् ।

रामस्य वायुपुत्रस्य सद्भक्तै श्च विशेषतः ॥ ४५॥

इति श्रीशतकोटिरामचरितान्तर्गत श्रीमदानन्दरामायणे

वाल्मिकीये मनोहरकाण्डे त्रयोदशसर्गातर्गतं श्रीहनुमत्कवचं

सम्पूर्णम् ॥

हनुमत्-लक्ष्मण-सीता-राम-भरत-शत्रुघ्न

षट् कवचानि पठनीयम् ।

षट् कवचानि पठितुं अशक्तश्चेत्

हनुमत्-लक्ष्मण-सीता-राम –

अथवा हनुमत्-सीता-राम

अथवा हनुमत्-राम / सीता-राम कवचानि ।

अथवा श्रीरामकवचमेव पठनीयम् ॥

All the six kavachas


hanumat-lakShmaNa-sItA-rAma-bharata-shatrughna
from AnandarAmAyaNa should be recited together.
If one is unable to recite all the six,
then he/she can recite in the decreasing order
hanumat-lakShmaNa-sItA-rAma
hanumat-sItA-rAma
hanumat-rAma
sItA-rAma
If this is not possible, then one should at least
recite Shri Rama Kavacham.

You might also like