Download as pdf or txt
Download as pdf or txt
You are on page 1of 8

स्मिता वेंकटेश

त्रिपुरा रहस्य अंतर्गत

ज्ञान कलिका स्त्रोत्र


ज्ञान कलिका स्त्रोत्र
शिवे देवि संवित्सुधासागराऽऽत्मस्वरूपाऽसि सर्वान्तराऽऽत्मैकरूपा ।
न किञ्चिद्विना त्वत्कलामस्ति लोके ततः सत्स्वरूपाऽसि सत्येऽप्यसत्ये ॥

असत्यं पुनः सत्यमन्ये द्विरूपं द्वयाऽतीतमेके जगुः सर्वमेतत् ।


न ते तां विदुर्मायया मोहितास्ते चिदानन्दरूपा त्वमेवाऽसि सर्वम् ॥

क्षणानां क्रमैभिन्नरूपां धराद्यैर्मितामाहुरेके तमोमात्ररूपाम् ।


तमोदीप्तिसंभिन्नरूपाञ्च शान्तस्वरूपां महेशीं विदुस्त्वां न तेऽज्ञाः ॥

शिश्वादिक्षितिप्रान्ततत्त्वावलिर्या विचित्रा यदीये शरीरे विभाति ।


पटे चित्रकल्पा जले सेन्दुतारानभोवत्परा सा त्वमेवाऽसि सर्वा ॥

अभिन्नं विभिन्नं वर्हि र्वाऽन्तरे वा विभाति प्रकाशस्तमो वाऽपि सर्वम् ।


ऋते त्वां चितिं येन नो भाति किञ्चित्ततस्त्वं समस्तं न किञ्चित्त्वदन्यत् ॥

निरुध्याऽन्तरङ्ग विलाप्याऽक्षसङ्घ परित्यज्य सर्वत्र कामादिभावम् ।


स्थितानां महायोगिनां चित्तभूमौ चिदानन्दरुपा त्वमेवका विभासि ॥

तथाऽन्ये मनः सेन्द्रियं सञ्चरच्चाऽप्यसंयम्य तन्मार्गके जागरूकाः ।


स्वसंवित्सुधाऽऽर्शदेहे स्फु रन्तं महायोगिनाथाः प्रपश्यन्ति सर्वम् ॥
निरुक्ते महासारमार्गेऽतिसूक्ष्मे गतिं ये ने विन्दन्ति मूढस्वभावाः ।
जनान् तान् समुद्धर्तुमक्षाऽवगम्यं बहिःस्थूलरूपं विभिन्नं विभर्षि ॥

तम तदाराधनेऽनेकमार्गान् विचित्रान् विधायाऽथ मार्गेण के नाऽपि यान्तम् ।


नदीवारि सिन्धुर्यथा स्वीकरोति प्रदाय स्वभावं नु स्वात्मीकरोषि ॥

धनु तथा तासु मूर्तिष्वनेकासु मुख्या धनुर्वाणपाशाऽङ्कु शाऽऽढेचव मूर्तिः ।


शरीरेषु मूर्धेव ये तां भजेयुर्जनास्त्रेपुरी मूर्तिमत्युत्तमास्ते ॥

नान् दुःखसिन्धोः समुद्धर्तुकामा पथस्ताननेकान् प्रदिश्य प्रकृ ष्टान् ।


दयार्द्रस्वभावेति विख्यातकीर्तिस्त्वमेकै व पूज्या पराशक्तिरूपा ॥

सदा ते पदाब्जे मनःषट्पदो मे पिवन् तद्रसं निवृतः संस्थितोऽस्तु ।


इति प्रार्थनां मे निशम्याऽऽशु मातर्विधेहि स्वदृष्टि दयार्द्रामपीषत् ॥
फलश्रुति

हे पर्वतपुत्रि! तू ने जिस स्तोत्र से मेरी स्तुति की है


क्योंकि वह शक्तिसम्बन्धी विज्ञान से परिपूर्ण है, उसे
पढ़ने वाले मनुष्यों को वह ज्ञान देने वाला होगा, मेरी
कृ पा से विश्व में ज्ञानकलिका स्तोत्र इस नाम से प्रसिद्ध
बनेगा। इसका पाठ करने वाले पुरुप के ऊपर मैं प्रसन्न
होऊं गी।" इस प्रकार गौरी को कह कर भगवती
अम्बिका अदृश्य हो गई ॥

इति श्री ज्ञान कलिका स्तोत्र संपूर्णम्


श्री गुरु चरणार्पणमस्तु

ॐ असतो मा सद्गमय ।
तमसो मा ज्योतिर्गमय ।
मृत्योर्मा अमृतं गमय ।
ॐ शान्तिः शान्तिः शान्तिः ॥
S M I T A
V
E

SV K
A T
E S H

You might also like