Shorats

You might also like

Download as pptx, pdf, or txt
Download as pptx, pdf, or txt
You are on page 1of 45

रूपं 

त्वस्य यथोद्देशं निर्देक्ष्यामि [१] सभेषजम्||३८
||यथास्वेनोष्मणा पाकं  शारीरा यान्ति धातवः|
स्रोतसा च यथास्वेन धातुः पुष्यति धातुतः||३९||
स्रोतसां सन्निरोधाच्च रक्तादीनां च सङ्क्षयात्|
धातूष्मणां चापचयाद्राजयक्ष्मा प्रवर्तते||४०|| (c.chi.8)

अपि चैके  स्रोतसामेव समुदयं पुरुषमिच्छन्ति, सर्वगतत्वात् सर्वसरत्वाच्च दोषप्रकोपणप्र
शमनानाम्|
न त्वेतदेवं, यस्य हि स्रोतांसि, यच्च [१
]
 वहन्ति, यच्चावहन्ति, यत्र चावस्थितानि, सर्वं तदन्यत्तेभ्यः||४||
अतिबहुत्वात् खलु के चिदपरिसङ्ख्येयान्याचक्षते स्रोतांसि, परिसङ्ख्येयानि पुनरन्ये|
|५|| (c.vi. 5)
विविधमशितं पीतं लीढं खादितं जन्तोर्हितमन्तरग्निसन्धुक्षितबलेन यथास्वेनोष्मणा सम्य
ग्विपच्यमानं कालवदनवस्थितसर्वधातुपाकमनुपहतसर्वधातूष्ममारुतस्रोतः के वलं शरीरमु
पचयबलवर्णसुखायुषा योजयति शरीरधातूनूर्जयति च|
धातवो हि धात्वाहाराः प्रकृ तिमनुवर्तन्ते||३||
तत्राहारप्रसादाख्यो [१] रसः किट्टं च मलाख्यमभिनिर्वर्तते|
किट्टात् स्वेदमूत्रपुरीषवातपित्तश्लेष्माणः कर्णाक्षिनासिकास्यलोमकू पप्रजननमलाः के शश्मश्रुलोम
नखादयश्चावयवाः पुष्यन्ति|
पुष्यन्ति त्वाहाररसाद्रसरुधिरमांसमेदोस्थिमज्जशुक्रौजांसि पञ्चेन्द्रियद्रव्याणि धातुप्रसादसञ्ज्ञकानि
 शरीरसन्धिबन्धपिच्छादयश्चावयवाः|
ते सर्व एव धातवो मलाख्याः प्रसादाख्याश्च रसमलाभ्यां पुष्यन्तः स्वं मानमनुवर्तन्ते यथावयःश
रीरम्|
एवं रसमलौ स्वप्रमाणावस्थितावाश्रयस्य समधातोर्धातुसाम्यमनुवर्तयतः|
निमित्ततस्तु क्षीणवृद्धानां प्रसादाख्यानां धातूनां वृद्धिक्षयाभ्यामाहारमूलाभ्यां रसः साम्यमुत्पादयत्
यारोग्याय, किट्टं च मलानामेवमेव|
स्वमानातिरिक्ताः पुनरुत्सर्गिणः शीतोष्णपर्यायगुणैश्चोपचर्यमाणा मलाः शरीर धातुसाम्यकराः स
मुपलभ्यन्ते||४|| (c.su.28)
तेषां तु मलप्रसादाख्यानां धातूनां स्रोतांस्ययनमुखानि|
तानि यथाविभागेन यथास्वं धातूनापूरयन्ति|
एवमिदं शरीरमशितपीतलीढखादितप्रभवम्|
अशितपीतलीढखादितप्रभवाश्चास्मिञ् शरीरे व्याधयो भवन्ति|
हिताहितोपयोगविशेषास्त्वत्र शुभाशुभविशेषकरा भवन्तीति||५|| (c .su.
28)

You might also like