Download as pptx, pdf, or txt
Download as pptx, pdf, or txt
You are on page 1of 4

औषध - भैषज

चिकित्सितं व्याधिहरं पथ्यं साधनं औषधम् ।


प्रायश्चितं प्रशमनं प्रकृ तिस्थापनं हितम् ॥
विद्यात् भेषज नामानि……..। च.चि.१/१/३

चिकित्सितं - रोगनिवृत्तिजनकव्यापारकरण
व्याधिहरं - व्याधीन् हरति यत् तद् द्रव्य व्याधिहरणम् ।
पथ्यं - पथिषु स्त्रोत:सु हितम्
साधनं - प्रकरणात रोगा: साध्यन्ते निवर्तयन्ते
औषधम् - व्याधिहितं
प्रायश्चितं - दु:खेषु प्रायो यो अग्रिवरिव तत्
प्रशमनं - प्रकर्षेण शमयति येन्
प्रकृ तिस्थापनं - धातुन् स्थापयति येन् तत्
हितम् - मनस: प्रियम्
औषधं भेषजं प्रोक्तं द्विप्रकारं चिकित्सितम् ।
तयोर्विशेषं वक्ष्यामि भेषजौषधयोद्वयो ॥
औषधं द्रव्यसंयोग ब्रूयते दीपनादिकम् ।
हुतव्रततपोदानं शांतिकर्म च भेषजम् ॥ का. खि. ५/३

ओषो नाम रस सो अस्या धीयते यत्त् औषधि: ।


ओषादारोग्यमाद्यते तस्मात् ओषधि ओषध: ॥ का.खि.३/२७

औषधिभिर्निष्पन्नं व्याधिहितं तदुपलक्षणत्वात् सर्व चिकित्सितम् औषधं रुढम् । गंगाधर

ओषं रुजं धयति इति औषधि ।


भेषज :
हुतव्रततपोदानं शांतिकर्म च भेषजम् ॥ का. खि. ५/३

भिषग्विज्ञाननेयत्वाद् भेषजं भिषजो विदु: ।


भिषग्जिते हितच्वाच्च भैषज्यं परिचक्षते ॥ का.खि.३/२८

भेषजं नाम तद्य उपकरणात् उपकल्पते भिषजो ।


धातुसाम्य अभिनिवृतौ प्रयतमानस्य विशेषत: ॥ च.वि. ८/८७ रोगभिषग्जितिय - दशविध
परीक्षा अंतर्गत करण

भैषज चतुष्पाद
भेषजं द्विविधं च तत् । स्वस्थस्य ओजस्करं किच्चित् किच्चित् आर्तस्य रोगनुत् ॥
अभेषजं च द्विविधं बाधनं स अनुबाधनम् । च.चि.१/४
अभेषजम् इति ज्ञेयं विपरीतं यद् औषधात् । च.चि.१/१५
यथा विषं यथा शस्त्रं यथा अग्निर् शनिर् यथा ।
तथा औषधम् विज्ञातम् अमृतं यथा ।।
औषधम् ह्यनभिज्ञातं नामरूपगुणैस्त्रिभि ।
विज्ञातं च अपि दुर्युक्तम् अनर्थायोपपद्यते ॥ च.सू.१/१२४
दीर्घजीवितीय शनि-वज्र

योगादपि विषं तीक्ष्णम् उत्तमम् भेषजं भवेत् ।


भेषजं च अपि दुर्युक्तं तीक्ष्णम् संपद्यते विषम् ॥ च.सू.१/१२६

You might also like